RBSE Class 12 Sanskrit लौकिकसाहित्यम्-नाटकानि

Rajasthan Board RBSE Class 12 Sanskrit लौकिकसाहित्यम्-नाटकानि

पाठ्यपुस्तक के प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
प्रतिज्ञायौगन्धरायणम्’ नाट्यकृतिः कस्य रचना अस्ति
(क) कालिदासस्य
(ख) भासस्य
(ग) बाणस्य।
(घ) भवभूतेः
उत्तर:
(ख) भासस्य

प्रश्न 2.
स्वप्नवासवदत्तायाः पूर्वभागम् अस्ति
(क) उत्तररामचरितम्।
(ख) प्रतिज्ञायौगन्धरायणम्
(ग) महावीरचरितम्
(घ) वेणीसंहारम्।
उत्तर:
(ख) प्रतिज्ञायौगन्धरायणम्

प्रश्न 3.
‘विक्रमोर्वशीयम्’ इत्यस्य रचनाकारस्य नाम किम् ?
(क) भासः।
(ख) बाणभट्टः
(ग) कालिदासः
(घ) भवभूतिः।
उत्तर:
(ग) कालिदासः

प्रश्न 4.
‘विक्रमोर्वशीयम्’ इति नाटकस्य कथा पूर्वरूपेण कुत्र प्राप्यते?
(क) विष्णुपुराणे
(ख) अग्निपुराणे
(ग) मत्स्यपुराणे
(घ) वायुपुराणे
उत्तर:
(ग) मत्स्यपुराणे

प्रश्न 5.
‘देवीचन्द्रगुप्तम्’ इत्यस्य रचनाकारः अस्ति?
(क) कालिदासः
(ख) बाणभट्टः
(ग) विशाखदत्तः
(घ) भासः
उत्तर:
(ग) विशाखदत्तः

अतिलघूत्तरात्मक प्रश्नाः

प्रश्न 1.
‘प्रतियौगन्धरायण’ नाटकं कतिषु अङ्केषु विभक्तम् अस्ति?
उत्तर:
इदं नाटकं चतुषु अङ्केषु विभक्तम् अस्ति।

प्रश्न 2.
विक्रमोर्वशीयम् नाटके कस्य रसस्य प्रमुखरूपेण वर्णनम् अस्ति?
उत्तर:
विक्रमोर्वशीयनाटके शृङ्गाररसस्य प्रमुखरूपेण वर्णनमस्ति।

प्रश्न 3.
मुद्राराक्षस्य रचनाकारः कः अस्ति?
उत्तर:
मुद्राराक्षस्य रचनाकार: विशाखदत्तः अस्ति।

प्रश्न 4.
‘मुद्राराक्षसम्’ इति नाटकं कतिषु अङ्केषु विभक्तम् अस्ति?
उत्तर:
इदं नाटकं सप्तसु अङ्केषु विभक्तमस्ति।

लघूत्तरात्मक प्रश्नाः

प्रश्न 1.
‘प्रतिज्ञायौगन्धरायणम्’ इत्यस्य कथासारं संक्षेपेण लिखत।
उत्तर:
प्रस्तुतप्रकरणे वत्सराजोदयनेन सह उज्जयिनीनरेशस्य महासेनस्य (प्रद्योतस्य) पुत्र्याः वासवदत्तायाः गुप्तपरिणयस्य तथा मन्त्रियौगन्धरायणस्य बुद्धिवैभवस्य वीरतायाश्च वर्णनमस्ति। अस्य कथावस्तु इत्थमस्ति—

वत्सदेशोद्भवः उदयन: रूपयौवनसम्पन्नः विशालकुलसम्भवः विदित-वेदितव्यः अधीतसर्वशास्त्रः राजकुमारः अस्ति। प्रद्योतः सेनाप्राचुर्यात् महासेननाम्ना प्रथितः अस्ति। तस्य पुत्री वासवदत्ता युवावस्थोपेता सुरूपा सगुणा विवाहयोग्या अस्ति। ‘सुयोग्यवराय कन्या देया’ इति चिन्तापरायणो प्रद्योतः आखेटाय स्वकीये नागवने प्रविष्टमुदयनं वशीकर्तुं ‘नीलकुवलयतनु’ नामकं कृत्रिमं गजं तत्र स्थापयति। उदयनः तत्र आखेटाय याति प्रद्योतसैनिकैश्च बन्दीभवति।

यौगन्धरायणः एतद् वृत्तं निशम्य चिन्तितः भवति। राजमाता अपि स्वतनयस्य इमां दशां श्रुत्वा दु:खिता भवति। किन्तु सा जानाति यत् यौगन्धरायणः सुयोग्यः कुशलः अनुभवशीलः स्वामिभक्तः च अस्ति। अतः सा तं स्वकीयं पुत्रं शत्रुकारागारात् मोचयितुं कथयति। यौगन्धरायणः प्रतिज्ञामाचरति। दैवयोगात् पार्श्ववर्तिराज्ञः अन्त:पुरे प्रविश्य स्वकार्यनिष्पादने समर्थों भवेत्।।

द्वितीय अड़े प्रद्योत महाराज्ञा अङ्गारवत्या वासवदत्तायाः विवाहाय मन्त्रणां करोति। तदैव कञ्चुकी तत्रं प्रविश्य प्रसन्नतातिरेकेण ‘गृहीतो वत्सराजः’, इत्यस्य स्थाने वत्सराजः इत्येव ब्रवीति। तदनन्तरम् उदयनस्य घोषवती वीणाऽपि तत्र आनीयते। प्रद्योतः इमां वीणां वासवदत्तायै प्रयच्छति। महाराज्ञी अङ्गारवती निश्चयं करोति यत् वत्सराज एव सुयोग्यः वर: वासवदत्तायै।

तृतीय अङ्के वत्सराजस्य मन्त्रिणः तं कारागारद् मोचयितुं योजनां कुर्वन्ति। उदयनस्तत्र कथमपि वासवदत्तामवलोक्य तां प्रति अनुरक्तः भवति। स वसन्तकं सूचयति यत् वासवदत्ता विना कारागारात् बहिरागन्तुं न मे मनः। यौगन्धरायणः घोषवती वीणां नीलगिरिनामकं गजं वासवदत्तया सह उदयनं च स्वदेशे आनयनाय प्रतिज्ञां करोति।

चतुर्थे अड़े वत्सराजः वासवदत्तया सह भद्रवती नाम्नीं हस्तिनीमारूह्य पलायते। प्रद्योतस्य सेना यौगन्धरायणस्य सेनामाक्रामति।।

दुर्भाग्यवशात् यौगन्धरायणस्य कृपाणः खण्डितः भवति, शत्रवश्च तं अधिगृह्णन्ति। प्रद्योतस्य मन्त्री यौगन्धरायणेन उदयनस्य पलायनकर्मण: निन्दा करोति। कञ्चुकी महासेनद्वारा भृङ्गारनामकं सुवर्णपात्रं उपायनरूपेण राजभक्ताय यौगन्धरायणाय आनयति। यौगन्धरायणः प्रथमं तत् न गृह्णाति किन्तु यदा स जानाति यत् प्रद्योतेन वासवदत्तायाः उदयनस्य च विवाह: चित्रफलके सम्पादितः तदा स सहर्षमुपायनं स्वीकरोति। अन्ततः मेलनं भवति। भरतवाक्येन च नाटकं पूर्णतां प्राप्नोति।।

प्रश्न 2.
मुद्राराक्षसस्य वैशिष्ट्यं संक्षेपेण लिखत।
उत्तर:
मुद्राराक्षसस्य वैशिष्ट्यम् इत्थं वर्तते-

  1. ‘मुद्राराक्षसम्’ पूर्णतया राजनीतिप्रधानं नाटकमस्ति यस्य आधारः ऐतिहासिकः विद्यते।।
  2. स्त्रीपात्राणां पूर्णतया अभावः वर्तते, अतएव शृङ्गाररसस्य अभिव्यञ्जना कुत्रापि न दृश्यते।।
  3. मुद्राराक्षसं विशुद्धं घटनाप्रधानं नाटकमस्ति, अतः कस्यापि रसविशेषस्य विशिष्टता न प्रतीयते।
  4. विशाखदत्तेन अस्मिन् नाटके धीरोदात्तः क्षत्रियः चन्द्रगुप्तः नायकरूपेण न स्वीकृतः अपितु ब्राह्मणः चाणक्य: नायकरूपेण स्वीकृतः।।
  5. अस्मिन् नाटके विदूषकस्य अभावः विद्यते। अतएव हास्यरस्य अभावः, फलतः सर्वत्र गम्भीरं वातावरणं दृश्यते।।
  6. वास्तविकरूपेण इदं नाटकम् आद्यन्तं ओजस्वितायाः, पौरुषतायाः, तेजस्वितायाः च ओत-प्रोतम् अस्ति।
  7. नाट्यशास्त्रदृष्ट्या अस्मिन् नाटके सर्वेषाम् अपेक्षितानां नाट्यतत्त्वानां यथास्थाने समावेशः प्राप्यते। कथावस्तु-विकासदृष्ट्या पश्चार्थप्रकृतीनां पञ्चावस्थानां च यथास्थाने निर्देशः, पञ्चसन्धीनामपि सम्यक्प्रयोगः विहितः। नान्दी-प्रस्तावनायुक्ता इयं कृतिः कवेः विशाखदत्तस्य अपेक्षितसर्वनाट्यगुणान्विता सफला कृतिः अस्ति।
  8. मुद्राराक्षसस्य रचनायाम् उत्कृष्टा कलात्मकता अस्ति। कविना पदे-पदे औचित्यविचारः कृतः।।

निबन्धात्मकप्रश्नाः

प्रश्न 1.
भाषाशैलीदृष्ट्वा ‘मुद्राराक्षसम्’ इत्यस्य नाटकस्य समीक्षणं कुरुत?
उत्तर:
भाषाशैलीदृष्ट्या इदं नाटकं श्रेष्ठम् अस्ति। नाटककारेण समय-परिस्थितिपात्रानुसारेण भाषा-प्रयोगः कृतः। शब्दचयनम्, शब्दविन्यासः स्वाभाविकः आडम्बरविहीनश्च अस्ति। भावानुकूलैः सर्वत्र शब्दानां प्रयोगः कृतः परं तु मन्त्रणाकाले सुन्दर-सरस शब्दानां प्रयोगः। कथोपकथनं संक्षिप्तं परं तु सारगर्भितम् अस्ति। अत्र संस्कृतभाषायाः अतिरिक्तं नाटककारेण शौरसेनी-महाराष्ट्र-मागधी-प्राकृतभाषायाः प्रयोगः कृतः, यत्। संस्कृतनाटकेषु आवश्यकमस्ति।

महाकवेः विशाखदत्तस्य शैली विषयानुरूपेण गाम्भीर्येण ओत-प्रोतम् अस्ति। शैल्याः गाम्भीर्येण कवेः कविताकामिनी मन्दमन्थरगत्या चलति। कवेः पदावलिः सशक्ता, प्रवाहमयी स्वाभाविको चास्ति।

विशाखदत्तस्य शैल्यां कुत्रापि कृत्रिमता नास्ति। काव्योचिता उदात्तता सर्वत्र विद्यमाना अस्ति। वीररसस्य परिपाकं अत्यन्तं रमणीयम् अस्ति। गौडीरीतेः प्रयोगेण वीररसस्य अभिव्यञ्जना आकर्षिका वर्तते।

अलङ्कारेषु उपमा-रूपक-श्लेष-अर्थान्तरन्यास-अप्रस्तुतप्रशंसा-समासोक्तीत्यादीनां अलङ्काराणां प्रयोग: सफलतापूवर्कः कृतः अस्ति। व्यंग्यार्थप्रतीतिः नाटककारेण श्लेषद्वारा अतिकुशलतया अभिव्यञ्जिता। छन्दस्सु शार्दूलविक्रीडितं-स्रग्धरा-वसन्ततिलका-शिखरिणीअनुष्टुप्-आदीनां सम्यक्प्रयोग: विहितः।।

प्रश्न 2,
‘विक्रमोर्वशीयम्’ इति नाटकस्य कथासांर वैशिष्ट्यं च लिखत।
उत्तर:
कथासारः-अस्य नाटकस्य अङ्कानुसारेण कथावस्तु एवमस्ति

प्रथमः अङ्कः-उर्वश्याः शिवसेवानन्तरं कैलाशपर्वतात् इन्द्रलोकनिवर्तनम्, मार्गे ‘केशी’ नामकेन दैत्येन उर्वश्याः पीडनम्, उर्वश्याः, करूण-क्रन्दनं श्रुत्वा राज्ञा पुरुरवाद्वारा तस्याः रक्षणम्, द्वयोः मध्ये परस्परानुरागस्य प्रारम्भः।।

द्वितीयः अङ्कः- राजा पुरुरवाविदूषकयो: मध्ये उर्वशीविषयकस्य प्रेम्णः वार्तालापम् उर्वश्याः तस्याः च सख्याः प्रेम्णः वार्तालापश्रवणम्, उर्वश्याः प्रेमपत्रलेखनम्।।

तृतीयःअङ्कः-भरतमुनेः शापप्रसङ्गः। इन्द्रकृपा शापस्य अवधेः पुरुरवापुत्रदर्शनपर्यन्तं निर्धारणम् उर्वश्याः (पुरूरवा) नाटकनायकेन सह प्रेमपूर्वकं निवासः।

चतुर्थः अङ्कः-उर्वश्याः कार्तिकेयस्य गन्धमादनवनं प्रति गमनम्, तत्र तस्याः लतारूपेण परिवर्तनम् वियोगे पुरुरवाविलपनम्, आकाशवाण्या पुरुरवाहे तो : सङ्गमनीयमणियुक्तायाः लतायाः आलिङ्गनाय आदेश:, पुन: तस्या लतायाः उर्वशीरूपेण परिवर्तनम्।

पञ्चमः अङ्कः-राज्ञः पुत्रोत्पत्तिसूचना, उर्वश्या: विषादः, इन्द्रलोकात् नारदस्य आगमनम्, इन्द्रस्य आदेशकथनम् यत् उर्वश्या: सदा सर्वदा पुरूरवासहधर्मिणीरूपेण निवासः भविष्यति इति।।

वैशिष्ट्यम्–कलादृष्ट्या विक्रमोर्वशीयस्य स्थानम् मालविकाग्निमित्रस्य अभिज्ञानशाकुन्तलस्य च मध्ये स्थितम् अस्ति। कविना स्वप्रतिभया एकस्मिन् पौराणिके कथानके महत्त्वपूर्ण परिवर्तनं कृत्वा नवीनं रूपं प्रदत्तम्। भरतमुनिना उर्वश्याः मृत्युलोके गमनस्य शापः कार्तिकेयस्य उपवने उर्वश्याः लतारूपेण परिवर्तनम्, एतेन परिवर्तनेन पुरु रवाविलापः इत्यादिना कतिपयेन नवेन अनुसंधानेन अस्य नाटकस्य रोचकता परिवर्धते।

अस्मिन् नाटके शृङ्गारस्य सर्वासु दशासु अत्यन्तं मार्मिकं चित्रणं कृतमस्ति। अत्र संयोगविप्रलम्भयोः उत्तमः परिपोषः दृश्यते। यद्यपि ‘विक्रमोर्वशीयम्’ इत्यस्य भाषा अभिज्ञानशाकुन्तलमिव परिष्कृता नास्ति, तथापि सा प्रसादगुणोपेता सौष्ठवयुक्ता अलंकृता चास्ति। अस्य नाटकस्य लघुछन्दस: माधुर्य वैविध्यं च दर्शनीयम्।

काव्यसौन्दर्यदृष्ट्या विक्रमोर्वशीयस्य चतुर्थः अङ्कः अप्रतिमः अस्ति। तस्य प्राकृतपद्यानां गीतिसौन्दर्यं, प्रकृतिवर्णनं प्रेमीजनस्य विरहव्यथावर्णनं च समग्ररूपेण मेघदूतस्य पूर्वचित्रम् प्रस्तुतं कुर्वन्ति। नाट्यदृष्टया अपि इदं नाटकं सफलम् अस्ति।

अन्य महत्त्वपूर्ण प्रश्नोत्तर

वस्तुनिष्ठ प्रश्नाः

प्रश्न 1.
करुणरसप्रयोगे सिद्धहस्त अद्वितीयः कविः अस्ति
(अ) भवभूति
(ब) शूद्रकः।
(स) विशाखदत्त।
(द) भट्टनारायणः
उत्तर:
(अ) भवभूति

प्रश्न 2.
पूर्णतया राजनीतिप्रधानं नाटकमस्ति
(अ) मृच्छकटिकम्
(ब) मुद्राराक्षसम्
(स) विक्रमोर्वशीयम्
(द) वेणीसंहारम्।
उत्तर:
(ब) मुद्राराक्षसम्

प्रश्न 3.
रामायणकथाधारितं भासस्य नाटकमस्ति–
(अ) स्वकनवासवदत्तम्
(ब) अविमारकम्
(स) प्रतिमानाटकम्।
(द) काञ्चरात्रम्।
उत्तर:
(स) प्रतिमानाटकम्।

प्रश्न 4.
मालविकाग्निमित्रमिति नाटकस्य प्रस्तावनायां कस्य नाटककारस्योल्लेखः कृतः?
(अ) कालिदासस्य
(ब) भासस्य
(स) भवभूतेः
(द) माघस्य।
उत्तर:
(ब) भासस्य

प्रश्न 5.
अस्मिन् नाटके स्त्रीपात्राणां पूर्णतया अभावः वर्तते–
(अ) मृच्छकटिके
(ब) वेणीसंहारे।
(स) मुद्राराक्षसे
(द) विक्रमोर्वशीये।
उत्तर:
(स) मुद्राराक्षसे

प्रश्न 6.
स्वप्नवासवदत्तस्य नाटकस्य प्रधानरस: वर्तते
(अ) हास्यः
(ब) करुणः
(स) शृङ्गारः
(द) वीरः।।
उत्तर:
(स) शृङ्गारः

प्रश्न 7.
कालिदासः कस्य राज्ञः नवरत्नेषु अन्यतमः आसीत्?
(अ) भोजस्य
(ब) विक्रमादित्यस्य
(स) उदयनस्य
(द) युधिष्ठिरस्य।
उत्तर:
(ब) विक्रमादित्यस्य

प्रश्न 8.
‘विक्रमोर्वशीयम्’ नाटकस्य नायकः अस्ति
(अ) विक्रमादित्यः
(ब) उदयनः
(स) दुष्यन्तः
(द) पुरुरवा।
उत्तर:
(द) पुरुरवा।

प्रश्न 9.
अभिज्ञानशाकुन्तलं नाटकं विभक्तमस्ति
(अ) सप्ताङ्केषु
(ब) षडङ्केषु।
(स) अष्टाङ्केषु
(द) दशाङ्केषु।।
उत्तर:
(अ) सप्ताङ्केषु

प्रश्न 10.
वैदर्भीरीतिसन्दर्भे विशियते
(अ) भवभूतिः
(ब) भासः
(स) कालिदासः
(द) शूद्रकः।
उत्तर:
(स) कालिदासः

प्रश्न 11.
पुरुरवा-उर्वश्योः पौराणिककथा प्राप्यते–
(अ) वायुपुराणे।
(ब) मत्स्यपुराणे
(स) शिवपुराणे
(द) गरुडपुराणे।
उत्तर:
(ब) मत्स्यपुराणे

प्रश्न 12.
वेणीसंहारनाटकस्य रचयिता वर्तते
(अ) विशाखदत्तः।
(ब) शूद्रकः
(स) कालिदासः
(द) भट्टनारायणः।
उत्तर:
(द) भट्टनारायणः।

प्रश्न 13.
विशुद्धं घटनाप्रधानम् ऐतिहासिकं नाटकमस्ति
(अ) मुद्राराक्षसम्।
(ब) वेणीसंहारम्
(स) मृच्छकटिकम्।
(द) अभिज्ञानशाकुन्तलम्।
उत्तर:
(अ) मुद्राराक्षसम्।

लघूत्तरात्मकप्रश्नाः

प्रश्न 1.
केन महाकविना सर्वत्र वैदर्भीरीतेः प्रयोगः कृतः?
उत्तर:
महाकविना कालिदासेन सर्वत्र वैदर्भीरीते: प्रयोगः कृतः।

प्रश्न 2,
महाकविना भासेन विरचितं प्रतिज्ञायौगन्धरायणं नाटकं कस्य नाटकस्य पूर्वभागमस्ति?
उत्तर:
‘स्वप्नवासवदत्तम्’ इति नाटकस्य।। प्रश्न 3. कालिदासस्य सर्वस्वम् किम् अस्ति? उत्तर:कालिदासस्य सर्वस्वम् अभिज्ञानशाकुन्तलम् अस्ति।

प्रश्न 4.
महाकवि भासप्रणीतं किं नामधेयं नाटकं ‘स्वप्नवासवदत्तम्’ इत्यस्य पूर्वभागमस्ति?
उत्तर:
प्रतिज्ञायौगन्धरायणम्।

प्रश्न 5.
मृच्छकटिकमित्यस्य नायकनायिकयोः नामनी लिखत।
उत्तर:
मृच्छकटिकस्य नायकः चारुदत्तः नायिका च वसन्तसेना वर्तते।

प्रश्न 6.
मुद्राराक्षसस्य विशेषताद्वयं लिख्यताम्।।
उत्तर:
मुद्राराक्षसनाटकं राजनीतिप्रधानं घटनाप्रधानं चास्ति। अस्मिन् नाटके स्त्रीपात्राणां पूर्णतयाभाव: विदूषकस्य चाभावः वर्तते।

प्रश्न 7.
भासस्य बृहत्कथाधारितानि कानि त्रीणि नाटकानि सन्ति?
उत्तर:
भासस्य बृहत्कथाधारितानि प्रतिज्ञायौगन्धरायण–स्वप्नवासवदत्तम्अविमारकाणि त्रीणि नाटकानि सन्ति।

प्रश्न 8.
भासेन कां घटनामाश्रित्य नाटकस्य नामकरणं ‘स्वप्नवासवदत्तम्’ इति कृतम्?।
उत्तर:
भासेन स्वप्नवासवदत्तस्य नाटकस्य पञ्चमाङ्के घटितां स्वप्नदृश्यस्य घटनामाश्रित्य ‘स्वप्नवासवदत्तम्’ इति नामकरणं कृतम्।।

प्रश्न 9.
कालिदासविरचितानां त्रयाणां नाटकानां नामानि लिखत।
उत्तर:
कालिदासेन नाटकत्रयं लिखितम्-

  • मालविकाग्निमित्रम्
  • विक्रमोर्वशीयम्
  • अभिज्ञानशाकुन्तलम्

प्रश्न 10.
अभिज्ञानशाकुन्तलस्य नायिका कालिदासेन केनरूपेण चित्रिता?
उत्तर:
अभिज्ञानशाकुन्तलस्य नायिका शकुन्तला निसर्गकन्या-अद्वितीयसुन्दरीमुग्धा नायिका-सरलेस्वभावयुक्ता-आदर्शसखीरूपेण च चित्रिता।।

प्रश्न 11.
कालिदासस्य मधुरसूक्तीः दृष्ट्वा महाकविना बाणभट्टेन कि लिखितम्?
उत्तर:
कालिदासस्य मधुरसूक्तीः दृष्ट्वा महाकविना बाणभट्टेन लिखितं यत्

निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु।
प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते।।

प्रश्न 12.
वेणीसंहारस्य नायकरूपेण कः प्रतिष्ठितः दृश्यते?
उत्तर:
वेणीसंहारस्य नायकत्वविषये विवादः। कतिपये विद्वांसः भीमम्, अपरे अर्जुनम्, इतरे युधिष्ठिरम्, अन्ये च दुर्योधनं नायकरूपेण स्वीकुर्वन्ति। परन्तु कथावस्तुनः पर्यालोचनेन भीमः एव नायकरूपेण प्रतिष्ठितः दृश्यते।

प्रश्न 13.
उत्तररामचरिते करुणरसस्य वर्णनवैचित्र्यं दृष्ट्वा गोवर्धनाचार्येण किम् उक्तम्?
उत्तर:
उत्तररामचरिते करुणरसस्य वर्णनवैचित्र्यं दृष्ट्वा गोवर्धनाचार्येण उक्तं यत्

भवभूतेः सम्बन्धात् भूधरभूरेव भारती भाति।
एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा।

RBSE Solutions for Class 12 Sanskrit