Rajasthan Board RBSE Class 7 Sanskrit रचना चित्रवर्णनम्
प्रश्न-चित्रम् आधृत्य मञ्जूषायाः सहायतया पञ्चवाक्यानि उत्तरपुस्तिकायां लिखत। (चित्र को आधार बनाकर मजूषा की सहायता से पाँच वाक्य उत्तर-पुस्तिका में लिखो।)
मञ्जूषा 1- अयम्, विद्यालयः, सुन्दरः, समीपे, वृक्षाः, कक्षाः, गच्छामि, मित्रेण सह, प्रतिदिन |
उत्तर:
- अयं मम विद्यालयः अस्ति।
- मम विद्यालयः सुन्दरः अस्ति।
- अयं विद्यालयः मम गृहस्य समीपे अस्ति।
- विद्यालयं परितः बहवः वृक्षाः सन्ति।
- विद्यालये पञ्चविंशतिः (25) कक्षाः सन्ति, अहं प्रतिदिनं मित्रेण सह विद्यालयं गच्छामि।
मञ्जूषा 2- कृषकः, क्षेत्रेषु, वृषभाम्या, हलं, कर्षति, बीजेभ्यः कर्तति, अन्नदाता, उद्भवन्ति, शस्यानि |
उत्तर:
- कृषक: क्षेत्रेषु वृषभाभ्यां हलं कर्षति।
- सः क्षेत्रेषु बीजानि वपति।
- बीजेभ्यः शस्यानि उद्भवन्ति।
- यदा शस्यानि पक्वन्ति तदा कृषकः तानि कर्तति।
- कृषकः ‘अन्नदाता’ कथ्यते।
मञ्जूषा 3- क्रीड़ाक्षेत्रम्, बालकाः कन्दुकेनः अत्रे, प्रतिदिनम्, क्रीड़ार्थम्, आगच्छन्ति, त्रयः, पश्यामः, अतिप्रसन्नाः |
उत्तर:
- अस्मिन् चित्रे वयम् एकं क्रीडाक्षेत्रं पश्यामः।
- अत्र त्रयः बालकाः कन्दुकेन क्रीडन्ति।
- क्रीडाक्षेत्रे प्रतिदिनं बालकाः क्रीडार्थम्। आगच्छन्ति।
- बालकाः अत्र क्रीडित्वा अतिप्रसन्नाः भवन्ति।
- क्रीडाक्षेत्रं परितः अनेकाः वृक्षाः सन्ति।
मञ्जूषा 4- जनाः, परस्परं, फाल्गुनमासस्य, गायन्ति, नृत्यन्ति च गलेन मिलन्नि, रक्तपीतादिवर्णैः मिष्ठान्नं, द्वेष, विस्मृत्य |
उत्तर:
-
- अस्मिन् चित्रे होलिकोत्सवः आयोज्यते।
- इदं महापर्व फाल्गुनमासस्य पौर्णमास्यां भवति।
- अस्मिन् दिने जनाः रक्तपीतादिवर्णैः क्रीडन्ति, गायन्ति, नृत्यन्ति च।
- अस्मिन् दिने गृहे-गृहे मिष्ठान्नं पच्यते।
- जना: परस्परं द्वेषं विस्मृत्य गलेन मिलन्ति।