RBSE Class 7 Sanskrit रचना लघु रचना/कहानी लेखनम्

Rajasthan Board RBSE Class 7 Sanskrit रचना लघु रचना/कहानी लेखनम्

प्रश्न-मजूषा में दिए गए शब्दों की सहायता से संस्कृत में लघु कहानी लेखन कीजिएमञ्जूषा

1. आहूय, अन्विष्य, अहङ्कारी, भ्रान्त्वा, मत्तः, आदिष्टवान्, आनय, संसारे, युधिष्ठिराय, उच्यते।

उत्तर:
एकदा गुरु द्रोणाचार्यः दुर्योधनम् आहूय आदिशत् वत्स! नगरे सर्वाधिक गुणवन्तं जनम् अन्विष्य आनय।” दुर्योधन अहङ्कारी आसीत्। सः सर्वत्र भ्रान्त्वा आगच्छत् अवदत् च “भगवान् मत्तः गुणवत्तरः कोऽपि नास्ति इति।” आचार्यः पुनः युधिष्ठिरम् आहूय आदिष्टवान्-वत्स! संसारे सर्वाधिक गुणहीने जनम् अन्विष्य आनय इति।” युधिष्ठिरः आगत्य अवदत्- “प्रभो मत्तः गुणहीनः संसारे कोऽपि नास्ति।” आचार्यः युधिष्ठिराय न वंक्ष्यति। नूनं सत्यमेव उच्यते-यथा दृष्टिः तथा सृष्टिः। मञ्जूषा

2. मेलकं, गच्छति, अनेके, मकरः, भीतौ, आसीत् करणीयम्, जनयोः, रक्षणम्, बालिकायै।

उत्तर:
एकदा एका बालिका पिता सह मेलकं द्रष्टुं नगर प्रति गच्छति स्म। ‘मार्गे’ एका नदी आसीत्। सो नौकया गच्छति स्म। नौकायाम् अनेके जनाः आसन्। नद्याम् एक मकरः आसीत्। तत्र द्वौ जनौ तस्मात् मकरात् भीतौ जले पतितो। तयोः मुखे भयस्य छाया आसीत्। सा अपि भीता आसीत् परन्तु सा अचिन्तयत्- “तयोः जनयोः रक्षणं कथं करणीयम्? “सा जले तयोः च जनयो: हस्तौ गृहीत्वा नौकां प्रति आनयत्। सा तयोः रक्षणम् अकरोत्। सा साहसी बालिका लक्ष्मीबाई आसीत्। एतस्मै बालिकायै नमः। मञ्जूषा

3. पिपासया, काकः, घटम्, स्वल्पं जलम्, उपायम्, पाषाणखण्डानि, न्यक्षिपत्, समागच्छत् पीत्वा, सफलः।

उत्तर:
पिपासया आकुलः एकः काकः जलाशयम् अन्वेष्टु वने इतस्ततः अभ्रमत्। सः एक घटम् अलभत। तस्मिन् घटे स्वल्पं जलम् आसीत्। अतः जनं पातुम् अथ सः एकम् उपायम् अचिन्तयत्। स दूरात् पाषाणखण्डानि आनीय घटे न्यक्षिपत् एवं क्रमेण जलम् उपरि समागच्छत्। सः च कोकः जलं पीत्वा सुखम् अलभत। उद्यमस्य प्रभावेण काकः सफलः अभवत्। मञ्जूषा

4. उत्तानपादो, सुनीतिः, सुरुचिः ज्यायसी, ध्रुवः, अङ्के, यदृच्छया, आरोढुम्, न्यवारयत्, मम पुत्रः।

उत्तर:
पुरा उत्तानपादो नाम नृपः आसीत्। तस्य द्वे भार्ये आस्ताम्-सुनीतिः सुरुचिः च। सुनीति ज्यायसी पत्नी आसीत्। सुरुचिः तु कनीयसी। सुनीते: सूनुः ध्रुवः सुरुचेस्तु उत्तमः। एकदा उत्तानपादः उत्तमम् अङ्के निधाय लालयन् आसीत् यदृच्छया तत्रागत: ध्रुवोऽपि पितुः अङ्कम् आरोढुम् ऐच्छत्, परन्तु सुरुचिः तं न्यवारयत्। सा सगर्वम् अवदत्- “कुमार त्वं मम पुत्रः नासि। मम पुत्रः एव नृपतेः अङ्कम् आरोढुम् अर्हति।” मञ्जूषा

5. लङ्कायाः, रावणः, छलेन, अभ्रमताम्, श्रीरामः सुग्रीवस्य, पवनकुमारस्य, प्राविशत्, युद्धम्, अमारयत्।

उत्तर:
लङ्कायाः नृपः रावणः आसीत्। सः छलेन सीताम् अहरत्। श्रीरामः लक्ष्मणः च वने इतस्ततः अभ्रमताम्। वने श्रीरामः सुग्रीवस्य सहायकः अभवत्। रामः सुग्रीवस्य पवनकुमारस्य च सहायतया लङ्काम् प्राविशत। तत्र श्रीरामस्य रावणेन सह युद्धम् अभवत्। युद्धे श्रीरामः सकलान् राक्षसान् लङ्कापतिं रावणेन सह अमारयत्।

RBSE Solutions for Class 7 Sanskrit