RBSE Class 9 Sanskrit अपठित गद्यांश

Rajasthan Board RBSE Class 9 Sanskrit अपठित गद्यांश

निर्देश- अधोलिखितान् अनुच्छेदान्। पठित्वा अनुच्छेदाधारितानां प्रश्नानाम् उत्तराणि स्व-उत्तरपुस्तिकायां लिखत
(1) संस्कृतसाहित्ये महाकवेः बाणभट्टस्य स्थानं सर्वोपरि अस्ति। अयं स्वकीयायाः सर्वप्रथमायाः गद्यकृतेः ‘हर्षचरितस्य’ प्रारम्भिके उच्छ्वासत्रये स्वकीय परिचयं दत्तवान्। अस्य जन्म वत्स गोत्रे अभवत्। कविः बाणभट्टः सारस्वतः ब्राह्मणः आसीत्। अस्य एकः पूर्वजः ‘कुबेरः’ इति नामा आसीत्, यः संस्कृतभाषायाः प्रकाण्डविद्वान् आसीत्। कुबेरस्य पौत्रः अर्थपतिः, बाणस्य पितामहः आसीत्। बाणस्य पितुः नाम चित्रभानुः आसीत्। महाकविः बाणभट्टः बाल्यकाले अभिभावकविहीनः जातः। अयं भ्रमणशीलः आसीत्, येन कारणात् तेन अनेकविधानां जनानां सम्पर्कः प्राप्तः। एकदा सः महाराज हर्षस्य राजसभां प्राप्तवान्। हर्षस्य राज्ये कतिषुचित् दिनेषु एव अस्य चरित्रस्य पाण्डित्यस्य च प्रभावः रूढः जातः, फलतश्च महाराजेन हर्षेण अयम् ‘वश्यवाणी कविचक्रवर्ती’ इति उपाधिना विभूषितः। महाकविबाणस्य प्रमुखाः तिस्रः रचनाः सन्ति-‘हर्षचरितम्’, ‘कादम्बरी’ चण्डीशतकम् च।

प्रश्न: 1.
एतस्य अनुच्छेदस्य समुचितं शीर्षकं लिखते।
उत्तर:
महाकविः बाणभट्टः।

प्रश्नः 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन देयानि
(क) महाकवेः बाणभट्टस्य प्रथमरचना किम् अस्ति?
(ख) बाणस्य जन्म कस्मिन् गोत्रे अभवत्?
(ग) कविः बाणभट्टः कः ब्राह्मणः आसीत्?
(घ) बाणस्य जनकस्य नाम किम् आसीत्?
उत्तर:
(क) हर्षचरितम्,
(ख) वत्सगोत्रे,
(ग) सारस्वतः,
(घ) चित्रभानुः।

प्रश्नः 3.
अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन देयानि
(क) कुबेरः कः आसीत्?
(ख) महाराजेन हर्षेण बाणः केन उपाधिना विभूषितः?
(ग) महाकवेः बाणस्य प्रमुखाः रचनाः कति सन्ति?
उत्तराणि
(क) कुबेरेः बाणस्य पूर्वजः आसीत्, यः संस्कृतभाषायाः प्रकाण्डविद्वान् आसीत्।
(ख) महाराजेन हर्षेण बाणः ‘वश्यवाणी कविचक्रवर्ती’ इति उपाधिना विभूषितः।
(ग) महाकवेः बाणस्य प्रमुखाः रचना: तिस्रः सन्ति-हर्षचरितम्, कादम्बरी चण्डीशतकम् च.

प्रश्नः 4.
निर्देशानुसारम् उत्तरं देयम्।
(क) “कुबेरस्य पौत्रः अर्थपतिः, बाणस्य पितामहः आसीत्”, वाक्यस्य कर्ता कः?
(ख) “अभवत् वत्सगोत्रे अस्य जन्म’, वाक्ये कर्तृ-क्रिया- अन्वितिः। कार्या।
(ग) “आचरणस्य” इत्यस्य पदस्य पर्यायवाचिपदं गद्यांशात् चित्वा लिखत्।
उत्तर:
(क) अर्थपति:
(ख) अस्य जन्म वत्सगोत्रे अभवत्।
(ग) चरित्रस्य।

2. अस्माकं देशस्य नाम’ भारतवर्षम्’ इति अस्ति। पुरा अस्माकं देशे भरतनामा दुष्यन्तपुत्रः महाप्रतापी राजा बंभूव। तस्य एवं सम्बन्धात् अस्य देशस्य नाम अपि ‘भारतम्’ इति प्रसिद्धम्। अस्मदीयः देशः प्रकृति-सम्पन्नः अस्ति। अत्र षड् ऋतवः यथासमयम् आगत्य भारतं विविधाभिः सुषमाभिः भूषयन्ति। अस्य क्रणौ रलाकरः दिवानक्तं प्रक्षालयति। नगाधिराजः हिमालयः अस्य मुकुट-माधुरीम् आधत्ते। गङ्गा-यमुनाद्यनेकाः नद्यः विविधेभ्यः स्थानेभ्यः निर्गत्य अस्य पावनत्वम् आपादयन्ति। अस्य भूमिः उर्वरा अस्ति। सर्वविधम् अन्नम् अत्र उपद्यते। अस्माकं देशः विश्वगुरुः अस्ति। अयं सभ्यतायाः प्रकाशम् अन्येभ्यः देशेभ्यः दत्तवान्। ‘भारतवर्षम्’ अनेकेषां भाषा-वेश-धर्म-संस्कृति-परम्पराणां देशः अस्ति। अयं वस्तुतः एकः महान् देशः अस्ति। अयम् अस्मभ्यम् अस्माकं प्राणेभ्यः अपि प्रियतरः अस्ति।

प्रश्न: 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर:
‘भारतवर्षम्।

प्रश्न: 2.
एकपदेन उत्तरम् उत्तरपुस्तिकायां लिखत–
(क) अस्माकं देशस्य नाम किम् अस्ति?
(ख) दुष्यन्तस्य पुत्रस्य नाम किम् आसीत्?
(ग) भारतस्य चरणौ कः दिवानक्तं प्रक्षालयति?
(घ) नगाधिराजः हिमालयः भारतवर्षस्य किम् अस्ति?
उत्तर:
(क) ‘भारतवर्षम्’,
(ख) भरतः,
(ग) रत्नाकरः,
(घ) मुकुटम्।

प्रश्न: 3.
पूर्णवाक्येन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) कस्य सम्बन्धाद् अस्य देशस्य नाम’ भारतम्’ प्रसिद्धम् अभवत्?
(ख) विश्वगुरुः कः अस्ति?
(ग) ‘भारतवर्षम्’ कीदृशः देशः अस्ति?
उत्तर:
(क) दुष्यन्तपुत्रभरतस्य सम्बन्धाद् अस्य देशस्य नाम। ‘भारतम्’ प्रसिद्धम् अभवत्।
(ख) अस्माकं देशः ‘भारतवर्षम् विश्वगुरुः अस्ति।
(ग) ‘भारतवर्षम्’ अनेकेषां भाषा-वेशधर्म-संस्कृति-परम्पराणां देशः अस्ति।

प्रश्नः 4.
निर्देशानुसारम् उत्तरम् उत्तरपुस्तिकायां लिखत
(क) “अस्माकं देशस्य नाम भारतवर्षम् अस्ति” वाक्ये कर्ता कः?
(ख) “समुद्रः’ इति शब्दस्य पर्यायम् अनुच्छेदात् चित्वा लिखत।
(ग) गत्वा’ इति क्रियापदस्य विलोमपदं गद्यांशात् चित्वा लिखत।
उत्तर:
(क) भारतवर्षम्
(ख) रत्नाकरः
(ग) आगत्य।

3. संसारे अनेकाः संस्कृतयः अदिताः अस्तंगताश्च। परं भारतीया संस्कृतिः इदानीमपि अक्षुण्णा वर्तते। अस्याः जीवनरसमूले आध्यात्मिकी भावना विद्यते। भारतीया संस्कृतिः कर्मसिद्धान्ते विश्वसिति, पुनर्जन्म खलु धुवं मनुते। मनुष्येण सदा उच्चस्तरीयचिन्तनेन सह सरलजीवन यापनीयम्। एषा धर्मप्रधानत्वेन ‘आचारः परमो धर्मः’ इति स्वीकृत्य धर्मभावनाम्, औदार्यं सहिष्णुतां, भ्रातृत्वं च इमान् गुणान् सदाचारं च परिपालयितुमुपदिशति। धर्मस्य पालनेन भौतिकी उन्नतिर्भवति, अलौकिकं सुखं च प्राप्यते। भारतीय संस्कृतिः आध्यात्मिकभावनया सर्वभूतेषु आत्मनः सत्तामवलोकयति। भारतीयजीवनमूल्यम् ‘वसुधैव कुटुम्बकम्’ एषा जीवने आचरति। भारतीय संस्कृतिः उत्कृष्टानां विचाराणामाचाराणां च समवायो विद्यते। लोकमंगलभावना अस्याः मूलसिद्धान्तः।

प्रश्नः 1.
अस्य गद्यांशस्य समुचितं शीर्षक लिखत।
उत्तर:
भारतीया संस्कृतिः।

प्रश्न: 2.
एकपदेन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) संसारे अनेकाः का: उदिताः अस्तंगताश्च?
(ख) भारतीयसंस्कृते: मूले का भावना विद्यते?
(ग) इदानीम् अपि का अक्षुण्णा वर्तते?
(घ) भारतीया संस्कृतिः किं खलु ध्रुवं मन्यते?
उत्तर:
(क) संस्कृतयः,
(ख) आध्यात्मिकी,
(ग) भारतीया संस्कृतिः,
(घ) पुनर्जन्म।

प्रश्नः 3.
पूर्णवाक्येन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) भारतीया संस्कृति: किं मनुते?
(ख) मनुष्येण सदा कीदृशं जीवन यापनीयम्?
(ग) धर्मस्य पालनेन किं भवति?
उत्तर:
(क) भारतीय संस्कृतिः कर्मसिद्धान्ते विश्वसिति. पुनर्जन्म खलु ध्रुवं मनुते च।
(ख) मनुष्येण सदा उच्चस्तरीयचिन्तनेन सह सरलजीवन यापनीयम्।
(ग) धर्मस्य पालनेन भौतिकी उन्नतिर्भवति, अलौकिकं सुखं च प्राप्यते।

प्रश्न: 4.
निर्देशानुसारम् उत्तरम् उत्तरपुस्तिकायां लिखत
(क) उदिताः’ एतस्य विपरीतार्थकः शब्दः अत्र किम्?
(ख) धर्मस्य पालनेन अलौकिकं सुखं प्राप्यते” वाक्ये कर्ता कः?
(ग) दिव्यं’ इत्यस्य पदस्य समानार्थी पदं गद्यांशात् चित्वा लिखत।
उत्तर:
(क) अस्तंगताः।
(ख) अलौकिक सुखम्।
(ग) अलौकिकं।

4. स्वातन्त्र्यमेव जीवनम्’ इति ऊरीकृत्य ये केचन पुरुषाः अस्मिन् जगति समजायन्त, तेषु नेतृवरः सुभाषः एकतमः। यस्य प्रातःवन्दनीयस्य पावननामस्मरणेन जीवनं धन्यं भवति। जीवनचरितस्य यस्य प्रेरकसंस्मरणानि स्मृत्वा न केवलं चेतः समुल्लसति अपितु तस्य जीवनस्य प्रशस्तपथमनुसृत्य देशकृते मनसा वचसा कर्मणा सर्वमेव समर्पणस्य भावना समुदजायते। बाल्यकाले सुभाषः एंग्लोभारतीयानामेकस्मिन् विद्यालये शिक्षार्थं प्रवेशितः। अधीयानः सुभाषः सपद्येव आंग्लभाषायां प्रावीण्यमधिगतवान्। विद्यालये तस्मिन् अध्ययनरतेषु एंग्लोइंडियनबालकेषु भारतीयबालकेषु च समव्यवहारः नासीत्। तत्र अधीयानाः प्रावीण्यं च प्रेकटयन्तः भारतीयाः बालकाः छात्रवृत्ति प्राप्तुं नाधिकृताः आसन्। वर्गभेदेन इमे बालकाः प्रायः कलहायमानाः एव निवसन्ति स्म। स्वात्मकथायां सुभाषः खिन्नमनसा सर्वान् भारतीयछात्रान् विद्यालयेऽस्मिन् प्रवेशात् न्यवारयत्।

प्रश्नः 1.
अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
उत्तर:
नेतृवरसुभाषस्य संस्मरणानि।

प्रश्नः 2.
एकपदेन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) कस्य पावननामस्मरणेन जीवनं धन्यं भवति?
(ख) बाल्यकाले सुभाष: कस्मिन् विद्यालये शिक्षार्थं प्रवेशित:?
(ग) सुभाषः कस्यां भाषायां प्रावीण्यमधिगतवान्?
(घ) सुभाषः भारतीयछात्रान् विद्यालयेऽस्मिन् कस्मात् न्यवारयत्?
उत्तर:
(क) सुभाषस्य,
(ख) एंग्लोइण्डियन्स,
(ग) आंग्लभाषायाम्,
(घ) प्रवेशात्।

प्रश्नः 3.
पूर्णवाक्येन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) किम् ऊरीकृत्य केचन पुरुषाः अस्मिन् जगति समजायन्त?
(ख) अधीयान: सुभाष: किम् अधिगतवान्?
(ग) एंग्लोभारतीयानां विद्यालये भारतीयबालकैः सह कीदृशं व्यवहारम् आसीत्?
उत्तर:
(क) ‘स्वातन्त्र्यमेव जीवनम्’ इति ऊरीकृत्य केचन पुरुषाः अस्मिन् जगति समजायन्त।
(ख) अधीयानः सुभाषः सपद्येव आंग्लभाषायां प्रावीण्यमधिगतवान्।
(ग) एंग्लोभारतीयानां विद्यालये भारतीयबालकैः सह पक्षपातपूर्णव्यवहारः आसीत्।

प्रश्नः 4.
निर्देशानुसारम् उत्तरम् उत्तरपुस्तिकायां लिखत
(क) ‘पावननाम’ इति कस्य नाम्नः विशेषणः अस्ति?
(ख) “ते छात्रवृत्तिं प्राप्तुं नाधिकृताः आसन्’ वाक्ये ‘ते’ इति सर्वनाम्नः स्थाने संज्ञाप्रयोगः कर्तव्यः।
(ग) “जीवन चरितस्य’ इत्यत्र पदे समास निर्देशं कुरुत।
उत्तर:
(क) सुभाषस्य,
(ख) भारतीयाः बालकाः,
(ग) षष्ठी तत्पुरुषः।

5. पृथ्वीजलाकाशवनस्पतयः जीवाश्च पर्यावरणसर्जकाः सन्ति। प्रकृत्याः समग्रं रूपमेव पर्यावरणमिति कथ्यते। पर्यावरणेन अस्माकं शरीरं मनः स्वास्थ्यं च प्रभावितानि भवन्ति। वर्तमानकाले प्राकृतिकसंसाधनानाम् असन्तुलितदोहनेन औद्योगिकविस्तारेण चास्माकं मृवायुजलानि दूषितानि। अनेन न केवलं वयम् अपितु वृक्षलता-गुल्मवायुजलजीवाः सर्वेऽपि प्रभाविताः सन्ति। वृक्षवनस्पतीनां पशुपक्षिणां चानेकाः दुर्लभाः प्रजातयः विलुप्यन्ते। सघनवनानि नश्यन्ति। अस्माभिः प्रतिश्वास विषपानं क्रियते। सततं क्रियमाणेन औद्योगिकीकरणेन पैट्रोलचालितवाहनैः च प्राणवायुः न्यूनतां प्राप्नोति, विषयुक्तः कार्बनडाइऑक्साइडवायुः वृद्धिम् आप्नोति। वायुप्रदूषणम् अम्लीयवर्षारूपेण परिणमति। विषयुक्तेन वायुना पृथिव्याम् ऊष्मा वृद्धिम् आप्नोति। वायुप्रदूषणनिवारणाय वनस्पतीनां वनानां च संरक्षणं परमावश्यकम्। पर्यावरणविशेषज्ञ मतानुसारेण भूभागस्य तृतीयांशः वनाच्छादितः भवेत्।

प्रश्नः1.
एतस्य गद्यखण्डस्य समुचितं शीर्षकं लिखत।
उत्तर:
पर्यावरणप्रदूषणम्।

प्रश्नः 2.
एकपदेन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) प्रकृत्याः समग्र रूपमेव किम् कथ्यते?
(ख) वयम् अपि प्रतिश्वासेन सह किं पिबाम:?
(ग) कंस्य निवारणाय वनानां संरक्षणं परमावश्यकम्?
(घ) पर्यावरणविशेषज्ञमतानुसारेण भूभागस्य कियान् अंशः वनाच्छादितः भवेत्?
उत्तर:
(क) पर्यावरणम्,
(ख) विषम्,
(ग) वायुप्रदूषणस्य,
(घ) तृतीयांशः।

प्रश्नः 3.
पूर्णवाक्येन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) पर्यावरणसर्जकाः के सन्ति?
(ख) पर्यावरणेन अस्माकं कानि प्रभावितानि भवन्ति?
(ग) वर्तमानकाले केन कारणेन मृवायुजलानि दूषितानि?
उत्तर:
(क) पृथ्वीजलाकाशवनस्पतयः जीवाश्च पर्यावरणसर्जकाः सन्ति।
(ख) पर्यावरणेन अस्माकं शरीरं, मनः स्वास्थ्यं च प्रभावितानि भवन्ति।
(ग) वर्तमानकाले प्राकृतिकसंसाधनानाम् असन्तुलितदोहनेन औद्योगिकविस्तारेण चास्माक मृवायुजलानि दूषितानि।

प्रश्न: 4.
निर्देशानुसारम् उत्तरम् उत्तरपुस्तिकायां लिखत
(क) “तस्याः समग्ररूपमेव पर्यावरणमिति कथ्यते” वाक्ये तस्याः सर्वनाम्नः स्थाने संज्ञाप्रयोग: कार्यः।
(ख) ‘ भाष्यते’ इत्यस्य पर्यायम् अनुच्छेदात् चिनुत।
(ग) ‘सुलभाः’ इत्यस्य पदस्य विलोमपदं गद्यांशात् चित्वा लिखत।
उत्तर:
(क) प्रकृत्याः,
(ख) कथ्यते,
(ग) दुर्लभाः।

6. अस्माकं राजस्थानं वीराणां जनको वर्तते। त्यागेन बलिदानेन च पूता अस्य भूमिः प्रणम्या। कवयः अपि काव्येषु अस्य गौरव-गीतानि गायन्ति। राजस्थानस्य वीराणां देशरक्षायै, स्वाभिमानं रक्षयितुञ्च कृतमात्मोस सगर्वं वदन्ति इतिहासविदः। राजस्थानस्य सभ्यतायाः उद्भवः विकासश्च अतिप्राचीनो वर्तते। कालीबंगा आहड़ादि स्थानेषु कृतेन उत्खननेन अस्याः सभ्यतायाः अस्तित्वं मोहनजोदड़ो-हड़प्पादिसभ्यतानां समकालिकं सिध्यति। पुरातात्विकसाक्ष्यैः सिध्यति यत् लक्षवर्षेभ्यः प्राक् राजस्थानस्य दक्षिणभागे बनासगम्भीरी बेड़चादिनदीनां च तटेषु निवासिनो मानवाः प्रस्तरयुगस्य आयुधैः मृगयां कुर्वन्ति स्म। प्रस्तरसभ्यतायाः चिह्नानि चर्मण्वत्यादिनदीनां समीपे समुपलब्धानि। ऋग्वेदानुसार राजस्थानीयस्य गंगानगरमण्डलस्य पूर्वस्यां सीमायां दृषद्वती सरित् वहति स्म प्रतीच्यां च सरस्वती नदी अवहत्। तस्मिन् समये अयं भू-भागः ब्रह्मावर्तनाम्ना कथ्यते स्म।

प्रश्न: 1.
एतस्य गद्यखण्डस्य समुचितं शीर्षकं लिखत।
उत्तर:
अस्माकं राजस्थानम्।

प्रश्न: 2.
एकपदेन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) अस्माकं राजस्थानं केषां जनकः वर्तते?
(ख) के काव्येषु राजस्थानस्य गौरव-गीतानि गायन्ति?
(ग) कस्य: सभ्यतायाः उद्भवः विकासश्च अतिप्राचीनो वर्तते?
(घ) गंगानगरमण्डलस्य पूर्वस्यां सीमायां का सरित् वहति स्म?
उत्तर:
(क) वीराणाम्,
(ख) कवयः,
(ग) राजस्थानस्य,
(घ) दृषद्वती।

प्रश्न: 3.
पूर्णवाक्येन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) राजस्थानस्य विषये इतिहासविदः सगर्वं किं वदन्ति?
(ख) राजस्थानस्य सभ्यता कस्याः सभ्यतायाः समकालिकी सिध्यति?
(ग) लक्षवर्षेभ्यः प्राक् राजस्थानस्य दक्षिणभागे काः नद्यः वहन्ति स्म?
उत्तराणि
(क) राजस्थानस्य वीराणाम् आत्मोत्सर्गम् इतिहासविदः सगर्वं वदन्ति।
(ख) राजस्थानस्य सभ्यता मोहनजोदड़ोहड़प्पादिसभ्यतानां समकालिकी सिध्यति।
(ग) लक्षवर्षेभ्यः प्राक् राजस्थानस्य दक्षिणभागे बनासगम्भीरी बेड़चादयः नद्यः वहन्ति स्म।

प्रश्नः 4.
निर्देशानुसारम् उत्तरम् उत्तरपुस्तिकायां लिखत
(क) “कवयः अस्य गौरवगीतानि गायन्ति” वाक्ये क्रिया का?
(ख) ‘प्राप्तानि’ इत्यस्य शब्दस्य पर्यायम् अनुच्छेदात् चिनुत।
(ग) ‘प्रस्तर सभ्यतायाः’ इति पदे समास निर्देशम् कुरुत।
उत्तर:
(क) गायन्ति।
(ख) समुपलब्धानि।
(ग) षष्ठी तत्पुरुषः।

7. हिन्दीभाषायामस्माकं राष्ट्रस्य गौरवं सन्निहितं विद्यते। कोऽपि देशः यदा स्वभाषयो व्यवहरति, तदैव तस्य गौरवं महत्त्वञ्च सुरक्षितं भवति। किन्तु यदा देशः मातृसमां स्वभाषाम् अनादृत्य अन्यदेशस्य भाषया व्यवहारं करोति तदा मानसिक- दास्यमेव स्वीक्रियते स्वातन्त्र्यप्रेमिभिः। अतः भारतीयैः स्वराष्ट्रभाषायै एव महत्त्वं देयम्। अद्य भारते कथ्यते कैश्चित् जनैः यद् हिन्दीभाषा अन्तर्राष्ट्रीयव्यवहाराय समर्था नास्ति। परं तैः स्मर्तव्यं यदियं भाषा अन्तर्राष्ट्रीयव्यवहाराय समर्थाऽस्ति सर्वभावेन। हिन्दीभाषायाः विद्वांसः सर्वेषु एव देशेषु विद्यन्ते। महदुःखमद्य तु इदं यत् भारतीयाः आंग्लभाषायाः ज्ञानद्वारा आत्मानं ख्यापयन्ति, कृतकृत्यतामनुभवन्ति। बुद्धौ भ्रमपूर्णः अयं विचारः रूढः सज्जातोऽस्ति यद् हिन्दीभाषया जीवने कापि उन्नतिः प्राप्तुं न शक्यते। अस्मिन् विषये अस्माभिः अन्ये: देशाः अवलोकनीयाः यैः ईदृशाः हीनाः विचाराः सर्वथा परित्याज्याः।

प्रश्न: 1.
एतस्य गद्यखण्डस्य समुचितं शीर्षक लिखत।
उत्तर:
राष्ट्रभाषा हिन्दी।..

प्रश्न: 2.
एकपदेन उत्तरम् उत्तरपुस्तिकायां लिखते
(क) अस्माकं राष्ट्रस्य गौरवं कुत्र सन्निहितं विद्यते?
(ख) भारतीयैः कस्यै महत्त्वं देयम्?
(ग) भारतीया: कां भाषां विना जीवने उन्नतिं प्राप्तुं न शक्नुवन्ति?
(घ) मानसिकदास्यं कै: स्वीक्रियते?
उत्तर:
(क) हिन्दी भाषायाम्,
(ख) स्वराष्ट्रभाषायै,
(ग) हिन्दीभाषाम्,
(घ) स्वातन्त्र्यप्रेमिभिः।

प्रश्न: 3.
पूर्णवाक्येन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) कस्यापि देशस्य गौरवं कदा सुरक्षितं भवति?।
(ख) अद्य केचन भारतीयाः किं कथयन्ति?
(ग) अद्य हिन्दीभाषायाः विद्वांसः कुत्र विद्यन्ते?
उत्तर:
(क) कोऽपि देशः यदा स्वभाषया व्यवहरति तदैव : तस्य गौरवं सुरक्षितं भवति।
(ख) अद्यः केचन भारतीयाः कथयन्ति यत् हिन्दीभाषा अन्तर्राष्ट्रीयव्यवहारार्थं नैव क्षमा।
(ग) अद्य हिन्दीभाषायाः विद्वांसः सर्वेषु एव देशेषु विद्यन्ते।

प्रश्नः 4.
निर्देशानुसारम् उत्तरम् उत्तरपुस्तिकायां लिखत
(क) “ अस्यां भारतवर्षस्य गौरवं सन्निहितम्’ वाक्ये ‘अस्यां’ सर्वनाम्न: स्थाने संज्ञाप्रयोगः कर्तव्यः।
(ख) ‘आदृत्य’ इत्यस्य शब्दस्य विलोमपदम् अनुच्छेदात् चिनुत।
(ग) ‘स्मर्तव्यं’ इत्यस्मिन् पदे प्रकृति प्रत्ययं निर्दिशत्।
उत्तर:
(क), हिन्दीभाषायाम्।
(ख) अनादृत्य।
(ग) तव्यत्।

8. रामायणं मम अभीष्टतमः ग्रन्थः। अस्य लौकिककाव्यस्य प्रादुर्भावः वैदिकवाङ्मयानन्तरम् अभवत्। रामायणं लौकिक संस्कृतभाषानिबद्धमयम्आ दिकाव्यम् इति कथ्यते। अस्य ग्रन्थस्य रचना आदिकविना वाल्मीकिना कृता। अस्मिन् महाकाव्ये भगवतो रामचन्द्रस्य चरितं वर्णितं वर्तते। अस्मिन् काव्ये सप्तकाण्डानि सन्ति। दशरथनन्दनो रामो मानवतायाः आदर्शभूतः। त्रेतायुगे जातस्य परमादर्शभूतस्य रघुवंशस्य विविधाः कथाः जनैः सावधानतया कथ्यन्ते श्रूयन्ते च। महर्षिणा वाल्मीकिना रघुवंशचूडामणेः श्रीरामभद्रस्य सर्वा कथा रामायणे विलिखिता। बालकाण्डतः उत्तरकाण्डावधिः श्रीरामचन्द्रस्य कथा मुनिना रामायणे विलिखिता। रसस्य परिपाकः, अलङ्काराणां विन्यासः लौकिकछन्दांसि च रामायणे सर्वोत्कृष्टत्वं प्राप्नुवन्ति।

प्रश्नः1.
एतस्य गद्यखण्डस्य समुचितं शीर्षक देयम्।
उत्तर:
रामायणम्।

प्रश्न: 2.
एकपदेन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) लेखकस्य अभीष्टतमः ग्रन्थः किम्?
(ख) आदिकाव्यं किम् अस्ति?
(ग) रामायणस्य रचना केन कृता?
(घ) रामायणे कति काण्डानि सन्ति?
उत्तर:
(क) रामायणम्,
(ख) रामायणम्,
(ग) वाल्मीकिना,
(घ) सप्त।

प्रश्न: 3.
पूर्णवाक्येन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) रामायणस्य प्रादुर्भावः कदा अभवत्?
(ख) रामायणे कस्य चरितं वर्णितम् अस्ति?
(ग) का: कथा: जनै: सावधानतया श्रूयन्ते?
उत्तराणि
(क) रामायणस्य प्रादुर्भाव; वैदिकवाङ्मयानन्तरम् अभवत्।
(ख) रामायणे भगवतो रामचन्द्रस्य चरितं वर्णितम् अस्ति।
(ग) त्रेतायुगे जातः रघुवंशस्य विविधाः कथाः जनैः सावधानतया श्रूयन्ते।

प्रश्नः 4.
निर्देशानुसारम् उत्तरम् उत्तरपुस्तिकायां लिखत
(क) “रामायणम् आदिकाव्यं कथ्यते” वाक्ये क्रिया का?
(ख) “ग्रन्थः अस्ति मर्म अभीष्टतमः रामायणम्’ वाक्ये कर्तृ-क्रिया-अन्वितिः कार्या।
(ग) अनेकाः’ इत्यस्य पदस्य पर्यायवाचि पदं गद्यांशात् चित्वा लिखत।
उत्तर:
(क) कथ्यते।
(ख) रामायणं मम अभीष्टतमः ग्रन्थः अस्ति।
(ग) विविधाः।

9. संसारे अनेकाः ऋतवः भवन्ति, किन्तु भारतवर्षे षड्ऋतवः प्रमुखाः सन्ति। तासां नामानि वसन्तः, ग्रीष्मः, वर्षा, शरद, हेमन्तः, शिशिरः सन्ति। एतासु ऋतुषु वर्षतः अति महत्त्वम् अस्ति यतो हि भारतदेशः एकः कृषिप्रधानदेशः अस्ति। भारतवर्षस्य कृषकाः ग्रामेषु एव वसन्ति। ते वर्षायाम् एव निर्भराः भवन्ति। ग्रीष्मतापेन सन्तप्तोऽयं लोकः वर्षासमये सुखानुभवं करोति। कृषकाः बलीवर्दान् संयोज्य क्षेत्रकर्षणमारभन्ते। क्षेत्रेषुएव भूरि शस्यं प्रजायते। सुवृष्ट्या मानवस्य जीवनं निर्विघ्नं प्रचलति। फल-पुष्प-लता-पादपादयः वनस्पतयः प्रसन्नतामभिव्यञ्जयन्ति। सायंसमये गोवः वनात् प्रतिनिवृत्य गोष्ठमुपगच्छन्ति। युवतयः वृक्षशाखासुदोलानन्दम् अनुभवन्ति। ब्रजस्थमन्दिरेषु ‘घटाच्छटादर्शनम्’ सज्जा प्रारभ्यते। वृन्दावने तु सर्वत्र रासलीलादर्शनं भवति।

प्रश्नः1.
एतस्य गद्यखण्डस्य समुचितं शीर्षक लिखत।
उत्तर:
वर्षाकालः।

प्रश्नः 2.
एकपदेन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) भारतवर्षे कति ऋतवः प्रमुखाः सन्ति?
(ख) भारतदेशः कीदृशः देशोऽस्ति?
(ग) भारतदेशस्य कृषकाः कुत्र निवसन्ति?
(घ) रासलीलाया: दर्शनं कुत्र भवति?।
उत्तर:
(क) षड्ऋतवः,
(ख) कृषिप्रधानः,
(ग) ग्रामेषु,
(घ) वृन्दावने।

प्रश्न: 3.
पूर्णवाक्येन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) षड्ऋतवः काः सन्ति?
(ख) अयं लोकः कदा सुखानुभवं करोति?
(ग) वर्षाकाले कृषकाः किं कुर्वन्ति? :
उत्तर:
(क) वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः शिशिरः चे षड्ऋतवः सन्ति।
(ख) ग्रीष्मतापेन सन्तप्तोऽयं लोकः वर्षासमये सुखानुभवं करोति।
(ग) वर्षाकाले कृषकाः बलीवर्दान् संयोज्य क्षेत्रेषु कर्षणमारभन्ते।

प्रश्नः 4.
निर्देशानुसारम् उत्तरम् उत्तरपुस्तिकायां लिखत
(क) ‘ग्रीष्मः’ शब्दस्य विपरीतार्थकः शब्दः अत्र कः?
(ख) “कृषका: वर्षायामेव निर्भराः भवन्ति” वाक्ये ‘कृषकाः’ इति संज्ञायाः स्थाने सर्वनामप्रयोग: कर्तव्यः।
(ग) ‘फल-पुष्प-लता-पादपयः-वनस्पतयः च अत्र समास निर्देशं कुरुत।
उत्तर:
(क) शिशिरः।
(ख) ते (वे सब)।
(ग) द्वन्द्व समासः।

10. अस्माकं देशः कृषिप्रधान देशोऽस्ति। ग्रामेषुएव कृषिकर्म भवति यतोहि अत्र देशस्य बहुसंख्यकाः मनुष्याः ग्रामेषु एवं वसन्ति। ग्रामवासिनां जीवनं सुखमयं भवति। प्रकृत्याः मनोरमरूपं ग्रामवासिनेभ्यः प्रसन्नतां ददाति। कुत्रचित् हरितशस्यमयी स्थली शोभते, क्वचित् च हरितानि क्षेत्राणि राजन्ते। वृक्षाः शोभया, पवनः स्वसुगंधिना पुष्पाणि च रूपेण ग्रामवासिनो मनोरञ्जनं कुर्वन्ति। पक्षिणां मधुरः कलरवः कर्णयोः मधुधारा सिञ्चति। उपवनानां शोभा ग्रामवासिनां जीवने सरसतायाः मधुरतायाः च संचारं करोति। क्वचित् पुष्पाणि विकसन्ति तु क्वचित् गुञ्जन्तो भ्रमराः पुष्पेषु भ्रमन्ति तेषां मधु च पिबन्ति। ग्रामं परितः क्षेत्राणि पीतपुष्पैः। ग्रामवासिनां मनांसि मोहयन्ति। ग्रामीणजनाः प्रकृतेः क्रोडे वर्धन्ते। स्वच्छः पवनः, दिनकरस्य रश्मय, पवित्रं स्वच्छं च जलं ग्रामीणजनानां स्वास्थ्य वर्धयन्ति।

प्रश्न: 1.
एतस्य गद्यखण्डस्य समुचितं शीर्षकं लिखत।
उत्तर:
ग्राम्यजीवनम्।

प्रश्न: 2.
एकपदेन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) अस्माकं देशः कीदृशो देशोऽस्ति?
(ख) कृषिकर्म कुत्र भवति?
(ग) पुष्पेषु के भ्रमन्ति?
(घ) ग्रामवासिनो जीवनं कीदृशं भवति?
उत्तर:
(क) कृषिप्रधानः,
(ख) ग्रामेषु,
(ग) भ्रमराः,
(घ) सुखमयम्।

प्रश्नः 3.
पूर्णवाक्येन उत्तरम् उत्तरपुस्तिकायां लिखत
(क) ग्रामेषु क्षेत्रेषु के राजन्ते?।
(ख) ग्रामवासिनां मनोरञ्जनं के कुर्वन्ति?
(ग) उपवनानां शोभा किं करोति?
उत्तर:
(क) ग्रामेषु क्षेत्रेषु हरितशस्यमयी स्थली हरितानि क्षेत्राणि च राजन्ते।
(ख) वृक्षाः शोभया, पवनः स्वसुगन्धिना पुष्पाणि च रूपेण ग्रामवासिनां मनोरंजनं कुर्वन्ति।
(ग) उपवनानां शोभा ग्रामवासिनो जीवने सरसतायाः मधुरतायाश्च संचार करोति।

प्रश्नः 4.
निर्देशानुसारम् उत्तरम् उत्तरपुस्तिकायां लिखत
(क) ‘अंके’ इत्यस्य शब्दस्य पर्यायम् अनुच्छेदात् चिनुत।
(ख) “अस्माकं देश: कृषिप्रधान देशोऽस्ति” वाक्ये कर्ता कः?
(ग) ‘दु:खमयम्’ इत्यस्य पदस्य विलोम पदं गद्यांशात् चित्वा लिखत।
उत्तर:
(क) क्रोडे,
(ख) अस्माकं देशः,
(ग) सुखमयम्।

RBSE Solutions for Class 9 Sanskrit