RBSE Class 12 Sanskrit Board Paper 2018

RBSE Class 12 Sanskrit Board Paper 2018 are part of RBSE Class 12 Sanskrit Board Model Papers. Here we have given Rajasthan RBSE Class 12 Sanskrit Board Paper 2018.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 12
Subject Sanskrit
Paper Set Board Paper 2018
Category RBSE Model Papers

Rajasthan RBSE Class 12 Sanskrit Board Paper 2018

समय : 3:15 घण्टे
पूर्णांक : 80

परीक्षार्थिभ्यः सामान्य निर्देशाः

  1. परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामांक अनिवार्यतः लेख्यः।
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. प्रत्येक प्रश्नस्योत्तरम् उत्तरपुस्तिकायामेव देयम्।
  4. प्रत्येक प्रश्नभागस्य उत्तरं क्रमानुसारमेकत्रैव लेखितव्यम्।

प्रश्न 1.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
कश्चित् कान्ता विरह गुरुणास्वाधिकारात् प्रमत्तः
शापेनास्तङ्गमित महिमा वर्षभोग्येण भर्तुः।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु।।
(क) यक्षः कुत्र निवसति स्म? [1]
(ख) यक्षः कियत् काल पर्यन्तम् शापितः आसीत् ? [1]
(ग) स्निग्धच्छायातरुषु’- इत्यत्र विशेषण-विशेष्य पदं लिखत। [2]

प्रश्न 2.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतएकस्मिन् दिने इन्दुमती भर्तारं त्रिलोचनम् उपायं दर्शितवती, यद् अधुना वृद्धाश्रमे एव मातरं प्रापय्य निश्चिन्तताया: अनुभवः क्रियेत् । अनेन तत्र स्वसमवयस्काभिः सह माता अपि सुखिनी स्थास्यति, वयम् अपि इह दु:खोन्मुक्ताः भविष्याम:। त्रिलोचनः इन्दुमत्या: प्रस्तावेन तत्कालम् एव सहमतः अजायत। अवसरं दृष्ट्वा स. मातरं तदर्थम्
अनुकूलाम् अपि कृतवान्।
(क) इन्दुमती त्रिलोचनं किमुपायं दर्शितवती? [1]
(ख) अवसरं दृष्ट्वा त्रिलोचनः किं कृतवान्? [1]
(ग) ‘वयमपि इह दु:खोन्मुक्ताः इत्यत्र ‘वयं’ सर्वनामस्थाने संज्ञापदं लिखत। [2]

प्रश्न 3.
अधोलिखितं नाट्यांशं पठित्वा निर्देशानुसार प्रश्नानाम् उत्तराणि लिखत
मैत्रेय : एष चार्यचारुदत्तस्य प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः
सिद्धीकृतदेवकार्यस्यार्य-
चारुदत्तस्योपनेतव्य इति। तद्यावदार्यर्यचारुदत्तं पश्यामि । एष चारुदत्तः सिद्धीकृतदेवकार्यो गृहदेवतानां बलि हरन्नित एवागच्छति।

विदूषक : (उपसृत्य) एष आर्य चारुदत्तः। तद्यावत्साम्प्रमुपसर्पामि। (उपसृत्य) स्वस्ति भवते । वर्धतां भवान् ।
चारुदत्त : सर्वकाल मित्रं मैत्रेय प्राप्तः सखे स्वागत । आस्यताम् ।
(क) चारुदत्तस्य कृते प्रावारकः केन प्रेषित ? [1]
(ख) मैत्रेयः चारुदत्तस्य कीदृशः मित्रम् आसीत् ? [1]
(ग) मैत्रेय: चारुदत्तं समीपं केन प्रयोजनेन गच्छति ? [2]

प्रश्न 4.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) इन्दुमती राज्यसर्वकारेण सम्मानिता। [1]
(ख) मानवाः सर्वत्र विजयं कामयन्ते। [1]
(ग) मातृवन्दनी मधुर स्वरेण गीयताम्। [1]

प्रश्न 5.
निम्नलिखितयोः वाक्ययोः भावार्थ हिन्द्यां संस्कृते वा लिखत [2 + 2 = 4]
(क) सङ्घशक्ति: कलौ युगे।
(ख) समशक्तिं पराक्रमैः ।

प्रश्न 6.
अधोलिखितस्य श्लोकस्य अन्वयसहितं सरलम् अर्थ हिन्द्यां संस्कृते वा लिखत [3]
बुद्धया विचिन्तयामास वीरा: केन निपातिता:।
गाहमानश्च तत् तोयमन्तरिक्षात् स शुश्रुवे।।

प्रश्न 7.
निम्नलिखितयोः शब्दयोः हिन्दीभाषायाम् आङ्गलभाषायां वा अर्थं लिखत [2]
(क) असकृत्
(ख) वयस्य

प्रश्न 8.
‘विरलाः हि तेषामुपदेष्टार:’ इत्यत्र ‘तेषां’ सर्वनामस्थाने संज्ञापदं लिखत। [1]

प्रश्न 9.
‘रमन्ते तत्र देवता:’ इत्यत्र कर्तृपदं लिखत। [1]

प्रश्न 10.
“पीतप्रतिवद्धवत्सां तां धेनु……..” अत्र विशेष्य पदं लिखत। [1]

प्रश्न 11.
‘पैशुन्यमुच्यते किंतत्’ इत्यत्र ‘पैशुन्यं’ पदस्य पर्यायपदं लिखत । [1]

प्रश्न 12.
‘वस्तुतः सङ्टने एव शक्तिनिवासः’ इत्यत्र रेखाङ्कितपदस्य विलोमपदं लिखत । [1]

प्रश्न 13.
‘नहि, नहि, हिरण्यमयी सीताप्रतिकृतिः’ इति कः कं प्रति कथयति ? [1]

प्रश्न 14.
वेदानां रचनाकाल विषये केषां त्रिविदुषां मतं संक्षेपेण लिखते। [3]

प्रश्न 15.
कस्य नाटकस्य कथानकः ‘स्वप्नवासवदत्तम्’ इत्यस्य पूर्वभागः विद्यते? कति अङ्केषु विभक्तमिदं नाटकम् ? [2]

प्रश्न 16.
कस्य गद्यकाव्यस्य उत्तरार्द्धभाग: भूषणभट्टेन पूरिता? अस्य पूर्वभाग: केन लिखिता? [2]

प्रश्न 17.
निम्नलिखित प्रश्नानां संक्षिप्तम् उत्तरं लिखत  [3]
(क) ‘जयपुर विलासः’ केन कविना सुरचितं रमणीयं खण्डकाव्यम् अस्ति?
(ख) भास्कराचार्यस्य सिद्धान्त-शिरोमणौ’ गणिताध्यायं आधारीकृत्य छात्राणां कृते ग्रह गणित सिद्धान्तानां विवेचनं केन कृतम् ?
(ग) ‘आदर्श-दम्पत्ती’ इति उपन्यासस्य लेखकः कः?

प्रश्न 18.
अधोलिखितेषु कस्यापि एकस्य छन्दसः लक्षणोदाहरणे लिखत [3]
(क) इन्द्रवज्रा
(ख) भुजङ्गप्रयातम् ।
(ग) शार्दूलविक्रीडितम्

प्रश्न 19.
निम्नलिखित कस्यापि एकस्याः पंक्त्याः गणचिह्न प्रदर्शयन् छन्दसः नामोल्लेखं कुरुत [2]
(क) नीचैर्गच्छत्युपरि च दशा चक्रनेमि क्रमेण ।
(ख) मम विरहजो न त्वं वत्से शुचं गणयिष्यसि ।

प्रश्न 20.
अधोलिखितेषु कस्यापि एकस्य अलङ्कारस्य लक्षणोदाहरणे लिखत [3]
(क) यमकम्
(ख) उपमा
(ग) अर्थान्तरन्यासः

प्रश्न 21.
निम्नलिखितेषु कस्यामपि एकस्यां पंक्त्यां प्रयुक्तः अलङ्कारस्य नामोल्लेखपूर्वकं लक्षणं लिखत- [2]
(क) वधाय वध्यस्य शरं शरण्यः।
(ख) न पतिष्यतः कर सहस्रमपि।

प्रश्न 22.
अधोलिखितं अपठित गद्यांशं पठित्वा निर्देशानुसार प्रश्नानाम् उत्तराणि लिखत
अस्ति मगधदेशे अतीव सुन्दरः, मनोहरः, रमणीयः जलाशयः। तस्य तोये सुरभीणि कमलानि आसन् । तत्र तड़ागे हंसौ अवसताम्। कम्बुग्रीवो नाम कूर्मः तयोः मित्रम् आसीत्। एकदा केचिद् धीवरास्तत्रागत्य श्यो जलचराणां ग्रहणाय निश्चयमकुर्वन्। तेषां निश्चयं ज्ञात्वा कूर्मस्य नयनाभ्याम् अश्रूणि अगलन् । हंसौतम् उपायमेकं बोधितवन्तौ ।
(क) कम्बुग्रीवः कयो: मित्रमासीत् ? (एकपदेन उत्तरम्) [1]
(ख) धीवराः किं निश्चयम् कुर्वन् ? (पूर्णवाक्येन उत्तरम्) [1]
(ग) “सुरभीणि कमलानि” इत्यत्र विशेषणं विशेष्यपदं किम् ? [1]
(घ) “नयनाभ्याम् अश्रूणि अगलन्-” अत्र कर्तृपदं किम् ? [1]

प्रश्न 23.
अधोलिखितं अपठित गद्यांशं पठित्वा निर्देशानुसारं प्रश्नानाम् उत्तराणि लिखत
अस्माकं भारतवर्षे नारीणां स्थानम् अतिमहत्वपूर्ण वर्तते । यदा-यदा पुरुषशक्तिः पराजिता भवति तदा-तदा नारीशक्तिः सुसंघटिता भूत्वा मानवसमाजं विपद्भ्यः रक्षति । नार्याः योगदानेन एव समाजः सुसंस्कृत: दृश्यते । दया-क्षमा-ममता– त्याग-सहानुभूति इत्यादयः गुणाः नार्या स्वाभाविकरूपेण वर्तन्ते । स्वतंत्रतासंग्रामे अपि नारीणां योगदानं सर्वे जानन्ति। समाजस्य प्रगतिः नारीप्रगत्याधीना वर्तते। अतएवोक्तम्- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
(क) भारतवर्षे केषां स्थानम् महत्वपूर्णं वर्तते ? (एकपदेन उत्तरम्) [1]
(ख) नार्या कीदृशाः गुणा: स्वाभाविकरूपेण वर्तन्ते? (पूर्णवाक्येन उत्तरम्) [1]
(ग) नारीशक्तिः विपद्भ्यः रक्षति……..इत्यत्र ‘रक्षति’ क्रियायाः कर्ता कः? [1]
(घ) गद्यांशस्य समुचितं शीर्षकं लिखत [1]

प्रश्न 24.
प्रदत्त-शब्दानां प्रयोगं कुर्वन् एकम् अनुच्छेद लिखत| मम ग्रामः, ग्रामस्य नाम, समीपे, कृषकाः, उत्पादयन्ति, ग्रामस्य जलवायुः, वृक्षाः उपवनानिच, जीवनमतिसरल, एका पाठशाला, आदर्शग्रामः । [5]

अथवा

क्रमरहितानि वाक्यानि समुचित-क्रमानुसारं लिखते
(क) तस्य चत्वारः पुत्रा आसन् ।
(ख) तत्र प्राचीनकाले नृपः दशरथः राज्यमकरोत् ।
(ग) ऋषिः विश्वामित्र: शस्त्रविद्यां शिक्षेतुं रामलक्ष्मणौ स्वस्य आश्रमम् अनयत् ।
(घ) तस्याः नाम सीता आसीत्।
(ङ) मिथिलानृपः स्वज्येष्ठां सुतां रामाय अयच्छत् ।
(च) तत: मिथिलायां चतुर्णामपि राजपुत्राणां विवाहोऽभवत् ।
(छ) अस्माकं देशस्य उत्तरप्रदेशे प्राचीना अयोध्यानगरी अस्ति।
(ज) तेन सह सीता लक्ष्मणश्च अपि अगच्छताम्।
(झ) तत्र वने रावणः सीता कपटेन अहरत् ।
(ञ) पितुरादेशात् राज्यं त्यक्त्वा रामः वनमगच्छत् ।

प्रश्न 25.
निम्नलिखितेषु वाक्येषु केषाञ्चित् पञ्चवाक्यानां संस्कृतभाषायाम् अनुवादं कुरुत [5]
(क) आप यहाँ कब आते हैं?
(ख) तुम सब कहाँ खेलते हो?
(ग) पुस्तक लाने के लिए घर जाओ।
(घ) तुम्हारा मित्र यहाँ कब आयेगा?
(ङ) हमें यहाँ नहीं रहना चाहिए।
(च) छात्र शिक्षक से व्याकरण पढ़ता है।
(छ) वह कल कहाँ गया था?
(ज) यह किसकी पुस्तक है?

प्रश्न 26.
अधोलिखित-पदानां सूत्रोल्लेखपूर्वकं सन्धि-विच्छेदं कुरुत [2]
(क) महौषधिः
(ख) प्रौढ़ि:

प्रश्न 27.
अधोलिखित-पदानां सूत्रोल्लेखपूर्वकं सन्धिं कुरुत [2]
(क) हित + उपदेशः
(ख) विष्णो + अव

प्रश्न 28.
निम्नलिखितेषु रेखाङ्कितपदेषु प्रयुक्त-विभक्तेः नामोल्लेखं कृत्वा तस्य सूत्रं चापि लिखत [4]
(क) सायंकाले जनाः ग्राम प्रति गच्छन्ति।
(ख) बालकः पुष्पाय स्पृहयति ।
(ग) कामात् क्रोधः जायते।
(घ) छात्रेषु मैत्रेयः पटुः।

प्रश्न 29.
अधोलिखित-पदयोः प्रयुक्त समासस्य नामोल्लेखपूर्वकं विग्रहं कुरुत [2]
(क) धर्माथी
(ख) पीताम्बरः

प्रश्न 30.
अधोलिखित-विग्रहवाक्ययोः समासं कृत्वा समासस्य नामोल्लेखमपि कुरुत [2]
(क) जनानाम् अभावः इति ।
(ख) कुत्सितः पुत्रः इति ।

उत्तरम्

उत्तर 1:
(क) यक्ष: जनकतनयास्नानपुण्योदकेषु स्निग्धच्छांयातरुषु रामगिर्याश्रमेषु निवसति स्म।
(ख) यक्ष: वर्षपर्यन्तं शापितः आसीत् ।
(ग) स्निग्ध’ इति विशेषणपदं ‘छाया’ इति विशेष्य पदम्। ‘स्निग्धछाया’ इति विशेषण ‘तरुषु’ इति विशेष्य पदम् ।

उत्तर 2:
(क) इन्दुमती त्रिलोचन उपायं दर्शितवती यत् अधुना वृद्धाश्रमे एव मातरं प्रापय्य निश्चिन्ततायाः अनुभवः क्रियेत्।
(ख) अवसरं दृष्ट्वा त्रिलोचन: मातरं वृद्धाश्रमे प्रापयत्।
(ग) इन्दुमती त्रिलोचनौ।

उत्तर 3:
(क) चारुदत्तस्य कृते प्रावारकः प्रियवयस्येन जूर्णवृद्धेन प्रेषितः।
(ख) मैत्रेयः चारुदत्तस्य सर्वकाल मित्रम् आसीत्।
(ग) मैत्रेयः चारुदत्तस्य समीपं जूर्णधनेन प्रेषितं प्रावरकं प्रापयितुं गच्छति ।

उत्तर 4:
(क) इन्दुमती के सम्मानितो?
(ख) के सर्वत्र विजयं कामयन्ते?
(ग) मातृवन्दना कीदृक् स्वरेण गीयताम्?

उत्तर 5:
(क) कृतयुगे या शक्तिः मन्त्र-प्रयोगे आसीत्, त्रेतायां या मन्त्रसाधने आसीत् द्वापरे च व्यूहरचनायाम् आसीत् सा हि शक्ति कलौ युगे संघे संघीभूती जाता। संघटनेनैव शक्तिः लभ्या नान्यः पन्थाः विद्यतेऽयनाय।
(सतयुग में जो शक्ति मन्त्र प्रयोग में थी, त्रेता में जो तन्त्र-धना में थी, द्वापर में जो व्यूह रचना में थी, कलियुग में वह शक्ति संघ (एकता) में इकट्ठी हो गई है। संगठन से ही शक्ति प्राप्त है, इसकी अन्य कोई और राह नहीं है।)

(ख) चतुरः शृगालः नीतिं ब्रूते- यत् उत्तमं विनम्रतया प्रणामादिभ्यः जयेत्; शूरवीरं भेदनीत्या योजयेत, नीचं प्रलोभनेन जयेत् परन्तु यः प्राणी समान शक्तिवान् अस्ति तम् पराक्रमेण युद्धं वा कृत्वा विजयेत। एवं एव शृगालः अपरं सम्मुखम् आयान्तं शृगालं दृष्ट्वा तस्य अभिमुखं प्रयाणं कृत्वा आक्रम्य शृगालं पलायितुं वाध्यं करोति गजं च स्वदंष्ट्राभिः विदार्य स्वयं सुखेन चिरकालं भुङ्क्ते।
(चतुर गीदड़ नीति बताती है कि उत्तम प्राणी को विनम्रता प्रणाम आदि से जीतना चाहिए, शूरवीर को भेदनीति से जोड़ना चाहिए, निम्न प्राणी को कुछ लोभ देकर जीतना चाहिए, परन्तु जो समान शक्ति वाला हो उसे पराक्रम के साथ युद्ध करके जीतना चाहिए। इसी प्रकार गीदड़ ने दूसरे सामने आते हुए शृगाल को देखकर उसके सामने जाकर आक्रमण कर शृगाल को भागने के लिए बाध्य कर देता है तथा हाथी को अपने दाँतों से फाड़कर स्वयं सुखपूर्वक बहुत समय तक खाता है।)

उत्तर 6:
अन्वय: बुद्ध्या विचिन्तयामास, वीरा: केन निपातिता ? (यदा) असौ तत् तोयं गाहमानः, अन्तरिक्षात् स शुश्रुवे।
सरलार्थ: ततः असौ युधिष्ठिरः तान् पतितान् भ्रातृन् अवलोक्य विचारम् अकरोत् यत् एते शक्तिमन्तः वीराः केन हताः। इति विचिन्त्य यदा असौ सरोवरे स्नातुं प्रवृत्तेऽभूत् तदा एव सः आकाशात् आया वाणीम् अशृणोत्।। (तब वह युधिष्ठिर उन गिरे हुए भाइयों को देखकर विचार करने लगा कि ये शक्तिशाली वीर किसके द्वारा मारे गये। ऐसा सोचकर जब वह सरोवर में स्नान करने लगा तभी उसने आकाश में आती हुई वाणी को सुना

उत्तर 7:
(क) असकृतम् – बारम्बारम् = बार-बार या अनेक बार।
(ख) वयस्य – वयसा तुल्य यत् मित्रम् = समान आयु वाला मित्र।

उत्तर 8:
विरलाः हि राज्ञाम् उपदेष्टारः।

उत्तर 9:
‘देवताः’ इति कर्तृपदम्।

उत्तर 10:
‘धेनुम्’ इति विशेष्य पदम्।

उत्तर 11:
पिशुनता/उपजापः। (चुगलखोरी)

उत्तर 12:
विघटने।

उत्तर 13:
रामः वासन्र्ती प्रति कथयति ।

उत्तर 14:

  1. मैक्समूलर महोदयस्य मतेन ऋग्वेदस्य रचनाकाल: 1150 ई. पू. समीपे जातः।
  2. डॉ. अविनाशचन्द्रस्य मतेन भूगर्भशास्त्रीय तत्वानि आधारीकृत्य वेदस्य काल: 25000 वर्ष पूर्वं मन्यते ।
  3. बाल गंगाधर तिलक महोदयस्य मतानुसारेण नक्षत्रानाधृत्य ऋग्वेदस्य रचनाकाल: 6000 वर्ष पूर्वं निर्णीतः।

उत्तर 15:
प्रतिज्ञा यौगन्धरायणम्’ इत्यस्य नाटकस्य कथानकः ‘स्वप्नवासवदत्तस्य’ पूर्वभागम्।

उत्तर 16:
‘कादम्बरी’ इति गद्यकाव्यस्य उत्तरार्द्ध भागं भूषण भट्टेन लिखितम् । अस्य पूर्वभाग: वाणभट्टेन लिखितम् ।

उत्तर 17:
(क) “जयपुर विलासः’ इति रमणीयं खण्डकाव्यं श्रीकृष्णरामभट्ट महाकविना रचितम् ।
(ख) महामहोपाध्याय पं. दुर्गाप्रसाद द्विवेदी महाभागेन भास्कराचार्यस्य सिद्धान्त-शिरोमणौ’ गणिताध्यायं आधारीकृत्य छात्राणां कृते ग्रह गणित सिद्धान्तानां विवेचन कृतम् ।
(ग) ‘आदर्श-दम्पती’ इति उपन्यासस्य लेखकः पं. वृद्धिचन्द्र शास्त्री आसीत् ।।

उत्तर 18:
इन्द्रवज्रा- ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः।’ इन्द्रवज्रा वृत्त अर्थात् वार्णिक छन्द है। चार चरण वाले इस वृत्त के प्रत्येक चरण में क्रमशः तगण, तगण, जगण और दो गुरु के क्रम से 11 (ग्यारह) वर्ण होते हैं। यद्यपि इसमें यति विधानं नहीं होता परन्तु अधिकांशत: पाँचवें और छठे वर्ण पर यति होती है।
RBSE Class 12 Sanskrit Board Paper 2018 1

उत्तर 19:
(क)
RBSE Class 12 Sanskrit Board Paper 2018 2
प्रस्तुत पंक्ति में मगण, भगण, नगण, तगण, तगण और दो गुरु के क्रम से 17 वर्ण हैं। अतः मन्दाक्रान्ता वृत्त है। अन्तिम
वर्ण को लक्षण पूर्ति हेतु लघु के स्थान पर गुरु माना गया है।

(ख)
RBSE Class 12 Sanskrit Board Paper 2018 3
प्रस्तुत पंक्ति में नगण, सगण, मगण, रगण, सगण, लघु और गुरु के क्रम से 17 वर्ण हैं। अत: यहाँ हरिणी छन्द है।
अन्तिम वर्ण लक्षण पूर्ति हेतु लघु के स्थान पर गुरु किया गया है।

उत्तर 20:
यमकम्– लक्षणम्– यमकम् …………. सार्थकत्वं विद्यते।
लक्षण. ‘सत्यर्थे पृथगर्थायाः स्वरव्यञसंहतेः।
क्रमेण तेनैवावृत्तिर्यमके विनिगद्यते’।।

जहाँ सार्थक परन्तु परस्पर भिन्नार्थक दो वर्ण समुदायों की क्रम से आवृत्ति होती है वहाँ यमक अलङ्कार होता है। *यमक’ शब्द का अर्थ युगल (जोड़ा) अथवा युग्म होता है। जब पद्य में स्वर-व्यञ्जन की उसी क्रम से आवृत्ति प्राप्त होती है लेकिन उन आवृत्त शब्दों का अर्थ पृथक्-पृथक् होती है, तो वहाँ यमक अलङ्कार होता है।

यमक अलङ्कार में आवृत्त स्वरव्यञ्जन समुदायों में-

  1. कभी आवृत्त समुदाय के दोनों पद सार्थक होते हैं।
  2. कभी एक पद सार्थक और दूसरा पद निरर्थक होता है।
  3. कभी दोनों पद निरर्थक होते हैं।

उदाहरण–नवेपलाश-पलाशवनम्पुरः, स्फुटपरागपरागतपङ्कजम्।
मृदुलतान्तलतान्तमलोकयत्, से सुरभिं सुरभिं सुमनोहरैः।।

उदाहरण–संगति-इस उदाहरण में यमक है, क्योंकि यहाँ प्रथम चरण में दो पलाश हैं जिनके दो अर्थ हैं। प्रथम पलाश का अर्थ पत्ता है। द्वितीय पलाश शब्द का अर्थ पलाश वृक्ष है। उसी प्रकार चौथे चरण में प्रथम ‘सुरभि’ पद का अर्थ सुगन्ध और द्वितीय ‘सुरभि’ पद को अर्थ वसन्त ऋतु है। यहाँ प्रथम और चौथे पाद की आवृत्ति में दोनों, पलाश तथा सुरभि पदों की सार्थकता है।

उत्तर 21:
(क) अनुप्रास– लक्षणम्: नुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्ययत् । अर्थात् स्वर की विषमता होते हुए भी शब्द साम्य को अनुप्रास कहते हैं अर्थात् वर्गों को पुनरावृत्ति होने पर अनुप्रास अलंकार होता है। जैसे उक्त पंक्ति के वधाय और वध्य में तथा शर और शरण्य में वेर्ण साम्य हैं।

(ख) श्लेषः  श्लिष्टैः पदैरनेकार्थाभिधाने श्लेष इष्यते । अर्थात् जहाँ श्लिष्ट पदों के द्वारा अनेक अर्थों का कथन किया जाता है वहाँ श्लेष अलंकार होता है। यहाँ ‘कर’ के दो अर्थ हैं-

  1. हाथ
  2. किरण ।

उत्तर 22:
(क) हंसयोः ।
(ख) धीवराः जलचराणां ग्रहणाय निश्चयमकरोत् ।
(ग) “सुरभीणि’ इति विशेषण पदं ‘कमलानि’ च विशेष्य पदम् ।
(घ) “अश्रूणि’ अत्र अगलन् क्रियापदस्य कर्ता ।

उत्तर 23.
(क) नारीणाम्।।
(ख) दया-क्षमा, ममता-त्याग-सहानुभूति इत्यादयः गुणा: नार्यां स्वाभाविकरूपेण वर्तन्ते ।
(ग) नारीशक्तिः ।
(घ) नारीणां महत्वम् ।

उत्तर 24:

  1. अयं मम ग्रामः अस्ति।
  2. मम ग्रामस्य नाम लखनपुरः अस्ति।
  3. ग्रामस्य समीपे एव उच्च माध्यमिक विद्यालय विद्यते.
  4. ग्रामेषु कृषकाः निवसन्ति।
  5. कृषक: क्षेत्राणि कर्षन्ति अन्नं च उत्पादयन्ति।
  6. ग्रामस्य जलवायुः स्वास्थ्यप्रदेः भवति ।
  7. तत्र अनेके वृक्षाः सन्ति।
  8. ग्रामस्य समीपे एव उपवनानि सन्ति।
  9. ग्रामवासिनां जीवनम् अतिसरलं भवति।
  10. अत्रैका बालिकाभ्यः पाठशाला अपि वर्तते। एष एक; आदर्शग्राम

अथवा

(क) अस्माकं देशस्य उत्तरप्रदेशे प्राचीना अयोध्या नगरी अस्ति ।
(ख) तत्र प्राचीनकाले नृपः दशरथः राज्यमकरोत् ।
(ग) तस्य चत्वारः पुत्राः आसन्।
(घ) ऋषि: विश्वामित्र: शस्त्र विद्या शिक्षेतुं रामलक्ष्मणौ स्वस्य आश्रमम् अनयत् ।
(ङ) तत: मिथिलायां चतुर्णाम् अपि राजा पुत्राणां विवाहोऽभवत् ।
(च) मिथिलानृपः स्वज्येष्ठां सुता रामाय अयच्छत्।
(छ) तस्याः नाम सीता आसीत् ।
(ज) पितुरादेशात् राज्यं त्यक्त्वा राम: वनमगच्छत् ।
(झ) तेन सह सीता लक्ष्मणश्च अपि अगच्छताम्।
(ञ) तत्र वने रावणः सीतां कपटेन अहरत् ।

उत्तर 25:
(क) भवान् अत्र कदा आगच्छति ?
(ख) यूयं कुत्र क्रीडथ?
(ग) पुस्तकम् आनेतुं गृहं गच्छ।
(घ) तव मित्रम् अत्र कदा आगमिष्यति ?
(ङ) वयम् अत्रे न वसेम।
(च) छात्र शिक्षकात् व्याकरणं पठति ।
(छ) स: ह्यः कुत्र अगच्छत् ।
(ज) इदं कस्य पुस्तकम् अस्ति।

उत्तर 26:

पदम् सन्धि-विच्छेदम् सूत्रम्
(क) महौषधिः महा + औषधिः वृद्धिरेचि
(ख) प्रौढिः प्र + ऊढि: वा. प्रादूर्घढोढ्येषैष्येषु

उत्तर 27:

विच्छेद सन्धिः सूत्रम्
(क) हित + उपदेश हितोपदेश आद्गुणः
(ख) विष्णो + अव विष्णोऽव एङः पदान्तदति

उत्तर 28:

पद विभक्ति नाम सूत्रम्
(क) ग्रामम् द्वितीया वा. अभितः परितः समया निकषा हा प्रति योगेऽपि
(ख) पुष्पाय चतुर्थी स्पृहेरीप्सित:
(ग) कामात् पञ्चमी जनिकर्तुः प्रकृति:
(घ) छात्रेषु सप्तमी यतश्च निर्धारणम्

उत्तर 29:

समस्त पदम् विग्रह नाम समास
(क) धर्माथौ धर्म: च अर्थः च इतरेतर द्वन्द्व
(ख) पीताम्बरः पीतम् अम्बरं यस्य सः विष्णुः बहुव्रीहिः

उत्तर 30:

विग्रह समस्त पद नाम समास
(क) जनानाम् अभावः इति निर्जनम् अव्ययीभाव:
(ख) कुत्सितः पुत्रः इति कुपुत्रः कर्मधारयः

We hope the given RBSE Class 12 Sanskrit Board Paper 2018 will help you. If you have any query regarding Rajasthan RBSE Class 12 Sanskrit Board Paper 2018, drop a comment below and we will get back to you at the earliest.