RBSE Class 12 Sanskrit Model Paper 2

RBSE Class 12 Sanskrit Model Paper 2 is part of RBSE Class 12 Sanskrit Board Model Papers. Here we have given RBSE Class 12 Sanskrit Sample Paper 2.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 12
Subject Sanskrit
Paper Set Model Paper 2
Category RBSE Model Papers

RBSE Class 12 Sanskrit Sample Paper 2

समय : 3:15 घण्टे
पूर्णांक : 80

परीक्षार्थिभ्यः सामान्य निर्देशाः

  1. परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामांक अनिवार्यतः लेख्यः।
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. प्रत्येक प्रश्नस्योत्तरम् उत्तरपुस्तिकायामेव देयम्।
  4. प्रत्येक प्रश्नभागस्य उत्तरं क्रमानुसारमेकत्रैव लेखितव्यम्।

प्रश्न 1.
अधोलिखित पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
ॐ सह नाववतु। सह नौ भुनक्तु । सह वीर्यं करवावहै। तेजस्विनावधीतमस्तु ।
मा विद्विषावहै। ॐ शान्तिः। शान्तिः। शान्ति। [4]
(क) सह नौ कः अवतु ? [1]
(ख) आवयोः प्राप्त ज्ञान कीदृशं भवतु ? [1]
(ग) “सह नाववतु। सह नौ भुनक्तु।’ इति वाक्यं व्याख्यायत । [2]

प्रश्न 2.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- [4]
एकस्मिन् दिने इन्दुमती भर्तारं त्रिलोचनम् उपायं दर्शितवती, यद् अधुना वृद्धाश्रमे एव मातरं प्रापय्य निश्चन्ततायाः अनुभवः क्रियेत् । अनेन तत्र स्वसमवयस्काभिः सह माता अपि सुखिनी स्थास्यति, वयम् अपि इह दु:खोन्तमुक्ताः भविष्यामः। त्रिलोचनः इन्दुमत्याः प्रस्तावेन तत्कालम् एव सहमत: अजायत । अवसरं दृष्ट्वा सः मातरं तदर्थम् अनुकूलाम्। अपि कृतवान्।

त्रिलोचनं मातरं वृद्धाश्रमे प्रापय्य आगतः, किन्तु तस्य मनः नैव रमते स्म। यदि सः एकाकी अभविष्यत् तर्हि मातुः प्रत्येकम् इच्छा पूरयित्वा तां प्रसन्नाम् अरक्षिष्यत्, किन्तु पत्न्याः अपि मनः तेन रक्षणीयम् आसीत् एव ।
(क) मातरं वृद्धाश्रमे प्रापस्य आगस्य त्रिलोचनस्य की स्थिति अभवत् । (पूर्णवाक्येन उत्तरं दीयताम् ।) [1]
(ख) वृद्धाश्रमे मातरे प्रापयितुं कस्य प्रस्तावः आसीत् ? [1]
(ग) ‘तस्य मनः नैव रमते स्म’ अत्र ‘तस्य’ शब्द: कस्य कृते प्रयुक्तः, मनः किं नैव रमते स्म? [2]

प्रश्न 3.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- [4]
रामः – क्वासि प्रिये ! देवि! प्रसीद! प्रसीद ! न मामेवं विधं त्यक्तुमर्हसि । कष्टं भोः
व्यर्थं यत्र कपीन्द्रसख्यमपि में, वीर्यं हरीणां वृथा,
प्रज्ञा जाम्बवन्तो न यत्र, न गतिः पुत्रस्य वायोरपि।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
सौमित्रेरपि पत्रिणामविषये तत्र प्रिये! क्वासि मे।
सीता – बहुमानितास्मि पूर्वविरहे।
रामः – दु:खायैव सुहृदामिदानीम् रामदर्शनम् । तदनुजानीहि मां गमनाय।
सीता – (तमसामाश्लिष्य) हा भगवति तमसे, गच्छतीदानीमार्यपुत्रः। किं करोमि?
(इति मृच्छति)
तमसो – वत्से जानकि ! समाश्वसिहि। विधिस्तवानुकूलो भविष्यति। तदायुष्मतो: कुशलवयोर्वर्षद्धिमङ्गलानि संपादयितुं भगीरथीपदान्तिकमेव गच्छावः।
रामः – अस्ति चेदानीमश्वमेधसहधर्मचारिणी में ।
सीता – (साक्षेपम्) आर्यपुत्रः कः?
वासन्ती — परिणीतमपि किम् ?
रामः – नहि, नहि, हिरण्यमयी सीताप्रतिकृति:।
सीता – (सोच्छ्वासास्रम्) आर्यपुत्र, इदानीमसि त्वम् । अहो उत्खातितमिदान में परित्यागशल्यमार्यपुत्रेण ।
वासन्ती – महानयं व्यतिकरोऽस्माकं प्रसादः। गमनं प्रति यथा कार्यहानिर्न भवति तथा कार्यम्।
रामः — तथास्तु।।
(सर्वे निष्क्रान्ताः)
(क) कि हिरण्यमयी अस्ति ? (पूर्णवाक्येन उत्तरं दीयताम् ।) [1]
(ख) ‘सख्यम्’ इति पदस्य पर्यायार्थक पदं लिखत। [1]
(ग) विश्वकर्मतनयः कः अस्ति ? [2]

प्रश्न 4.
रेखाङ्कितपदानि आधृत्य प्रश्न निर्माणं कुरुत [3]
(क) सवित्र्याः परं नास्ति।
(ख) यक्षः रामगिरेः आश्रमेषु निवसति ।
(ग) मृच्छकटिक शूद्रकस्य कृतिः अस्ति।

प्रश्न 5.
निम्नलिखित वाक्ययोः भावार्थः हिन्द्यां संस्कृते वो लिखत [4]
(क) याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा।
(ख) गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।

प्रश्न 6.
अधोलिखित श्लोकस्य अन्वय-सहितं सरलम् अर्थं हिन्द्यां संस्कृते वा लिखत [3]
त्वमेव ननु कल्याणि ! संजीवय जगत्पतिम् ।
प्रियस्पर्शी हि पाणिस्ते तत्रैव निरतो जन ॥

प्रश्न 7.
निम्नलिखितयोः शब्दयोः हिन्दीभाषायां आङ्ग्लभाषायां वा अर्थं लिखत- [2]
(क) चिकीर्षुः
(ख) सार्थवाहः

प्रश्न 8.
‘सा कामपि न्यूनतां न अरक्षेत्’ अन्न क्रियापदं तस्य कर्तृपदं च चित्वा लिखत। [1]

प्रश्न 9.
‘समुन्नतपदम्’ अत्र विशेषण-विशेष्यपदं पृथक् कृत्वा लिखत। [1]

प्रश्न 10.
‘इयम् हि कर्मभूः पुराणमङ्गला’ अत्र ‘इयम्’ इति सर्वनामपद कस्मै प्रयुक्तम्? [1]

प्रश्न 11.
‘सानन्दमाह-युक्तमिदम्’ अस्मात् वाक्यात् ‘उचितम्’ इति पर्यायवाचिपदं चिनुत। [1]

प्रश्न 12.
‘कम्पितमिव कुसुमसमबन्धन’ मे हृदयम् इति कः के प्रति कथयति? [1]

प्रश्न 13.
भूमिः इति पदस्य विलोमार्थकं पदम् लिखत। [1]

प्रश्न 14.
ऋग्वेदस्य परिचयः लिखत। [3]

प्रश्न 15.
हर्षचरितस्य परिचयं संक्षेपेण लिखत। [2]

प्रश्न 16.
‘प्रतिज्ञायौगन्धरायणम्’ इत्यस्य कथासारं संक्षेपेण लिखत। [2]

प्रश्न 17.
निम्नलिखित प्रश्नानाम् संक्षिप्तम् उत्तरं लिखत  [3]
(क) ‘कालिदासपुरस्कारेण’ कः सम्मानित:?
(ख) सीतारामभट्ट पर्वणीकरः कस्य राज्याश्रितः कवि आसीत् ?
(ग) प्रभाकर शास्त्रिणः पितुः नाम किमासीत् ?

प्रश्न 18.
अधोलिखितेषु कस्यापि एकस्य छन्दसः लक्षणोदाहरणे लिखत [3]
(क) उपजाति:
(ख) भुजङ्गप्रयातः
(ग) वसन्ततिलका।

प्रश्न 19.
निम्नलिखित कस्यापि एकस्याः पंक्त्याः गणचिह्न प्रदर्शयन् छन्दसः नामोल्लेखं कुरुत [2]
(क) भानुः सकृद्युक्त तुरङ्ग एव।
(ख) इतर पाप फलानिये दृच्छया।

प्रश्न 20.
अधोलिखित कस्यापि एकस्य अलङ्कारस्य लक्षणोदाहरणे लिखत [3]
(क) रूपकम्
(ख) अनुप्रास
(ग) निदर्शना

प्रश्न 21.
निम्नलिखितेषु कस्यामपि एकस्यां पङ्क्त्यां प्रयुक्त-अलङ्कारस्य नामोल्लेखपूर्वकं लक्षणं लिखत- [2]
(क) नवपलाश-पलाश वनं पुरः।
(ख) लिम्पतीव तमोऽङ्गानि।

प्रश्न 22.
अधोलिखितं अपठित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-  [4]
अरकं भारतवर्षे राष्ट्रियाः, धार्मिकोः सामाजिकाः च उत्सवाः भवन्ति। होलिकोत्सवः हिन्दूनां महत्त्वपूर्ण: सामाजिक उत्सवः अस्ति। अयम् उत्सवः फाल्गुनमासस्य पौर्णमास्यां भवति । अयम् उत्सवः वसन्ततॊ भवति । तदा समशीतोष्णं वातावरणम् अति सुखदं भवति । उत्सवोऽयं मनुष्येषु सुखोल्लासम् आनन्दञ्च सञ्चारयति । अस्मिन् उत्सवे जनाः परस्परं मिलन्ति मिष्ठान्नवितरणं च कुर्वन्ति।
(क) होलिकोत्सवः मनुष्येषु के सञ्चारयति ? (एकपदेन उत्तरं)
(ख) भारतवर्षे के उत्सवाः भवन्ति ? (पूर्णवाक्येन उत्तरं दीयताम्)
(ग) “होलिकोत्सवः हिन्दूनाम् उत्सवः अस्ति’ इत्यत्र कर्तृपदचयनं कुरुत।
(घ) होलिकोत्सवः कदा भवति ?

प्रश्न 23.
अधोलिखित अपठित गद्यांशं पठित्वा निर्देशानुसार प्रश्नानाम् उत्तराणि लिखत-  [4]
साहित्ये साहित्यकारस्य भावानां विचाराणां च जीवितं चित्रणं भवति । इदं चित्रणं पृथिव्याः मानवस्य मानसिकानुभूतयः एव सन्ति । ‘साहित्य’ शब्दस्य परिभाषायां कथितमस्ति-‘हितस्य भावः साहित्यम्’ उत वा ‘हितेन सहित साहित्यम्।’ साहित्ये मानवस्य चिन्तनस्य स्वरूपं दृश्यते । अनेनैव मनुष्यः स्वानुभूतीः प्रकटयति । यद्यपि मानवेतरप्राणिष्वपि चिन्तनस्य शक्तिः शक्या, तथापि ते निजविचारान् व्यञ्जयितुं न शक्नुवन्ति यतस्ते मूकाः भवन्ति । मनुष्ये इयं शक्तिः विद्यते, अतः सः स्वभावना: प्रकटीकृत्य साहित्य-सृजनं करोति । इत्थं मानसिकचिन्तनस्य, भावनां, विचाराणाम् अनुभूतीनां चे यदा समन्वयः जायते, तदा स्वतः साहित्यस्य सृष्टिः भवति। अनेन प्रकारेण उक्तपरिभाषानुसारेण साहित्ये हितस्य मंगलभावस्य वा अनिवार्यत्वं भवति।
(क) केन सहितं साहित्यम् ? (एकपदेन उत्तरं दीयताम्)
(ख) साहित्ये किं भवति ? (पूर्णवाक्येन उत्तरं दीयताम्)
(ग) जीवितं चित्रणम्’ इत्यत्र विशेषण-विशेष्यपदचयनं कुरुत।
(घ) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।

प्रश्न 24.
प्रदत्त शब्दानां प्रयोगं कुर्वन् एकम् अनुच्छेदं लिखत [5]
महाकविः कालिदासः श्रेष्ठतमः कविः, सप्त-कृतयः, प्रसिद्धतमं नाटकं, उपमा-प्रयोगः, वैदर्भी रीतिः, महाकाव्यद्वयं, खण्डकाव्यद्वयं, कलापक्षः, भावपक्षः, विश्वसाहित्ये स्थानम्।

अथवा

क्रमरहितानि वाक्यानि समुचित क्रमानुसार लिखत
(क) तस्मिन् वायस-दम्पतिः सुखेन निवसति स्म।
(ख) एकस्मिन् निर्जने वने एकः वटवृक्षः आसीत्।
(ग) सः तयोः नवजातानि अपत्यानि अखादत्।
(घ) तस्य वृक्षस्य अधस्तात् एवं एकस्मिन् बिले कृष्णसर्पः आसीत्।
(ङ) मित्रेण शृगालेन परामृष्टः काकः तं स्वर्णहारं सर्पस्य बिले अक्षिपत्।
(च) सर्पस्य बिले हारं दृष्ट्वा तं चौरं मत्वा बिलं च खनित्वा ते सर्पम् अघ्नन्।
(छ) राजपुरुषाः हारम् अन्वेष्टुम् इतस्ततः भ्रमन्तः वृक्षस्य समीपम् आगच्छन्।
(ज) एकदा काकः शृगालेन परामृष्टः महाराज्ञाः रत्नजटितं स्वर्णहारम् अपहृत्य आनयत्।
(झ) काक दम्पती सर्वथा सुखी निर्भयश्च अभवताम्।
(ञ) तौ उभौ शृगालं कृतज्ञताम् अज्ञापयताम्।

प्रश्न 25.
निम्नलिखितेषु वाक्येषु केषाञ्चित् पञ्चवाक्यानाम् संस्कृतभाषायां अनुवादं कुरुत [5]
(क) वह गाँव को जाता है।
(ख) वेद सर्वाधिक प्रामाणिक ग्रन्थ हैं।
(ग) हमें शिक्षकों की आज्ञा का पालन करना चाहिए।
(घ) वधिक ने क्रौंच को मार दिया।
(ङ) गाँव के चारों ओर खेत हैं।
(च) बालक को लड्डू अच्छा लगता है।
(छ) भगवान् वासुदेव को ‘नमस्कार’।
(झ) भिक्षुक पैर से लँगड़ा है।

प्रश्न 26.
अधोलिखित पदानां सूत्रोल्लेखपूर्वकं सन्धिविच्छेदं कुरुत [2]
(क) गुरूपदेशः
(ख) विष्णोऽव।

प्रश्न 27.
अधोलिखितपदानां सूत्रोल्लेखपूर्वकं सन्धिं कुरुत – [2]
(क) उप + एधते
(ख) तत् + टीका उत्तरम्

प्रश्न 28.
निम्नलिखितेषु रेखाङ्कित पदेषु प्रयुक्त-विभक्तेः नामोल्लेख कृत्वा तस्य सूत्रं चापि लिखत [4]
(क) सुरेशः शय्याम् अधिशेते।
(ख) सीता रामेण सह वनम् अगच्छत्।
(ग) दुर्जनः पापात् न विभेति।
(घ) कवीनां कालिदास श्रेष्ठः।

प्रश्न 29.
अधोलिखित पदयोः प्रयुक्तसमासस्य नामोल्लेखपूर्वकम् विग्रहं कुरुत- [2]
(क) प्रतिदिनम्।
(ख) पञ्चवटी

प्रश्न 30.
अधोलिखित विग्रहवाक्ययोः समासं कृत्वा तयोः नामोल्लेखमपि कुरुत [2]
(क) माता च पिता च।
(ख) पुरुषः व्याघ्रः इव।

उत्तरम्

उत्तर 1.
(क) परमेश्वरः।
(ख) अस्माकम् अधीतं ज्ञानं तेजस्वी अस्तु ।
(ग) व्याख्याः हे परमेश्वर ! भवान् आवां गुरुशिष्यौ उभौ रक्षतु । भवान् आवयोः पालन पोषणं च करोतु । अत्र गुरु-शिष्यौ सहकार भावनया सह उत्कृष्ट सामर्थ्य प्राप्तये कामयेते।

उत्तर 2.
(क) मातरं वृद्धाश्रमे प्रापय्य यदा सः आगतः तदा तस्य मनः नैव रमते स्म।
(ख) वृद्धाश्रमे मातरे प्रापयितुं इन्दुमतेः प्रस्तावः आसीत्।
(ग) शकुन्तलायाः प्रति प्रयुक्तः। त्रिलोचनः मातुः विहार्य एकाकीः अभविष्यत् ।

उत्तर 3.
(क) सीताप्रतिकृतिः हिरण्यमयी अस्ति।
(ख) मैत्री।
(ग) विश्वकर्मतनयः नील अस्ति ।

उत्तर 4.
(क) कस्याः परं नास्ति ?
(ख) यक्षः कुत्र निवसति ?
(ग) मृच्छकटिकं कस्य कृतिः अस्ति ?

उत्तर 5.
भावार्थः
(क) सुयोग्ये पुरुषे कृता प्रार्थना निष्फला सत्यपि वरं भवति परञ्च अयोग्ये । पुरुषे सफला अपि न वरं यतः उत्तमजने • सौहाद्र्यादिगुणाः भवन्ति परञ्च अधमः तु अनुदारः भवति ।
(ख) यथा मनुष्यः खनन यन्त्रेण खनन् एव कूपात् जलं प्राप्नोति अर्थात् जलस्तरपर्यन्तं प्राप्नोति तथैव सेवाभावोपेतः शिष्यः आचार्यस्य समर्पया गुरोः हृदये स्थित विद्यां ज्ञानं वा लभते।

उत्तर 6.
अन्वयः कल्याणि ! त्वम् एव ननु जगत्पतिं सञ्जीवय, हि ते पाणिः प्रियस्पर्शः तत्र एव जनः निरतः।

सरलार्थ: हे कल्याणी (सौभाग्यवती) तुम ही जगत के पति (स्वामी राम) को होश में लाओ, क्योंकि तुम्हारा हाथ प्रिय स्पर्श वाला है। उसमें (तुम्हारे कोमल हाथों के स्पर्श के) जन (राम) बहुत अभ्यस्त (परिचित) हैं।

उत्तर 7.
(क) करने की इच्छुक।
(ख) व्यापारी ।

उत्तर 8.
अत्र क्रियापदम् ‘अरक्षत्’ तस्य कर्तृपदं च ‘सा’ इति ।

उत्तर 9.
‘समुन्नत’ इति विशेषण पदं ‘पदम्’ च विशेष्य पदम्।।

उत्तर 10.
‘मातृभू’ इति पदाय प्रयुक्तम्

उत्तर 11.
युक्तम्।

उत्तर 12.
मुरला तमसां प्रति कथयति ।

उत्तर 13.
व्योम।

उत्तर 14.
वैदिक साहित्यस्य समस्त रचनासु प्राचीनतमः ऋग्वेदः महत्त्वपूर्णः अस्ति। छन्दोबद्धकारणात्। इयं संहिता ”ऋग्वेद संहिता” इति नाम्ना अभिहिता। अयम् ऋग्वेदः सूक्तमण्डल भेदेन द्विधा विभक्तः अस्ति। तत्र सूतं चतुर्विधम्ऋषिसूक्तम्, देवतासूक्तम्, अर्थसूक्तम् छन्दसूक्तम् च। ऋग्वेदस्य मण्डल-अनुवा वर्गभेदेन अष्टकाध्याय सूक्तभेदेन द्विप्रकारकः विभागः प्राप्यते । प्रथमविभागे ऋग्वेदे (10) दशमण्डलानि, (85) पंचाशीतयः अनुवाकाः, (208) अष्टोत्तरशतद्वयमिताश्च वर्गाः सन्ति। ऋग्वेदे द्वितीय विभागे-(8) अष्टौ अष्टकानि, (64) चतुष्षष्ठी: अध्यायाः (1017) सप्तदशोत्तर सहस्राणि च सूक्तानि प्राप्यन्ते ऋग्वेदस्य समस्ताना मन्त्राणां संख्या (10580) दशसहस्रपंचाशत-अशीति शौनकानुक्रमणे उल्लिखति। सर्वे मंत्राः चतुर्दश छन्दसु विभक्ताः
सन्ति ।

उत्तर 15.
हर्षचरितम् बाणभट्टेन विरचितः प्रथमः ग्रन्थः अस्ति अयं ग्रन्थः अष्टोच्छ्वासेषु विभक्तम् एका आख्यायिका अस्ति ग्रन्थेऽस्मिन् प्रथमोच्छवासत्रये बाणेन स्वीया आत्मकथा लिखिता। चतुर्थादुच्छ्वासात् आरभ्य समाप्तिपर्यन्तं राज्ञः हर्षस्य चरितं वर्णितम्।।

उत्तर 16.
प्रतिज्ञायौगन्धरायणम्’ नाटके वत्सराजोदयनेन सह उज्जयिनीनरेशस्य महासेनस्य पुत्र्या: वासवदत्तायाः गुप्त-परिणयस्य वर्णनं तथा च मन्त्रियौगन्धरायणस्य बुद्धिवैभवस्य वीरतायाश्च वर्णनमस्ति। महासेनस्य कारागृहीत् उदयनस्य उन्मोचनाय यौगन्धरायणः यां नीतिमाचरति सा सातिशयेन श्लाघनीया अस्ति।

उत्तर 17.
(क) डॉ. रसिक बिहारी जोशी महाभागः।
(ख) सः सवाई जयसिंहस्य राज्याश्रितः कविः आसीत्।
(ग) प्रभाकरशास्त्रिणः पितुः नाम ‘पं. वृद्धिचन्द्र शास्त्री’ इति आसीत् ।

उत्तर 18.
उपजातिः-लक्षणम्- अनन्तरो- दीरिति ।
लक्ष्म भाजौ पादौ यदीयावु-पजातयस्ताः। अर्थात् जिस छन्द के चरण इन्द्र वज्रा और उपेन्द्रवज्रा के लक्षण वाले चिह्नों से युक्त हों, वह उपजाति नामक छन्द होता है। इसके प्रत्येक चरण में इन्द्रवज्रा अथवा उपेन्द्रवजा के लक्षणों से युक्त ग्यारह वर्ण होते हैं।

उदाहरण
RBSE Class 12 Sanskrit Model Paper 2 1

उत्तर 19.
RBSE Class 12 Sanskrit Model Paper 2 2

उत्तर 20.
(क) रूपकम्-लक्षण-तरूपकमभेदो यः उपमानोप–मेययोः।”रूपयति इति रूपकम्’ इसका अर्थ है-जहाँ उपमान का आरोप उपमेय में होता है, वहाँ ‘रूपक’ अलंकार होता है। रूपक अलङ्कार में उपमान और उपमेय में स्वरूपतः भेद होने पर भी अति साम्य प्रदर्शन के लिए काल्पनिक अभेद का आरोप होता है।

संसार-विषवृक्षस्य द्वे एव रसवत्फले। काव्यामृत-रसास्वादः संगम: सज्जनैः सह।।उदाहरण-सङ्गति-इस उदाहरण में उपमेय ‘संसार’ में उपमान ‘विषवृक्ष’ का आरोप है। इसी प्रकार ‘काव्य’ में ‘अमृत’ का आरोप है। इस कारण से यहाँ रूपक अलङ्कार है।

उत्तर 21.
(क) यमकालङ्कार।।
लक्षण- सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः। क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ।
उत्प्रेक्षा अलङ्कार।
लक्षण- भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य
परमात्मना।

उत्तर 22.
(क) सुखोल्लासम् ।
(ख) भारतवर्षे राष्ट्रियाः धार्मिका: सामाजिकाः च उत्सवाः भवन्ति ।
(ग) ‘होलिकोत्सवः’ इति कर्तृपदम् ।
(घ) होलिकोत्सवः फाल्गुनमासस्य पौर्णमास्यां भवति।

उत्तर 23.
(क) हितेन
(ख) साहित्ये साहित्यकारस्य भावानां विचाराणां च जीवितं चित्रणं भवति।
(ग) “जीवितम्’ इति विशेषणपदं, ‘चित्रणम्’ इति विशेष्यपदम्।
(घ) साहित्यम्।

उत्तर 24.
महाकविः कालिदासः संस्कृत-साहित्यस्य श्रेष्ठतम कविः अस्ति। तस्य स्थानं विश्वस्य उत्कृष्टेषु कविषु गण्यते । महाकवि कालिदासस्य प्रतिभा सर्वतोमुखी आसीत् । एष: महाकविः कदा कुत्र च अभवत् इत्यपि न निश्चितम् । परञ्च भारतीय जनश्रुत्यानुसारेण कालिदासः महाराज्ञः विक्रमादित्यस्य नवरत्लेषु अन्यतमः आसीत् । तेन महाकाव्यद्वयं लिखितम्- कुमारसम्भवम्, रघुवंशम् च। खण्डकाव्यद्वयं लिखितम्-ऋतु संहारम्, मेघदूतम् च। नाटक त्रयमपि लिखितम्- मालविकाग्निमित्रम्, विक्रमोर्वशीयम् अभिज्ञान शाकुन्तलम् च । उपमाप्रयोगे प्रकृतिचित्रणे च कालिदासः निपुणः अस्ति। अभिज्ञान शाकुन्तलं नाटक कालिदासस्य सर्वश्रेष्ठः कृति अस्ति। अस्मिन् नाटके कलापक्षः भावपक्षश्च नैपुण्येन प्रस्तुतं कुर्वते । अत: अभिज्ञान शाकुन्तलं नाटकास्य विश्वसाहित्ये महत्वपूर्ण स्थानं स्वीकृतः। कालिदास्य काव्येषु वैदर्भीरीतिः प्रसादगुणश्च स्तः। कथितमपि वैदर्भीरीतिसंदर्भ कालिदासो विशिष्यते । तस्य शैली लालित्ययुक्ता परिष्कृता च अस्ति। कालिदासस्य कवितायां क्लिष्टता कृत्रिमता च न स्तः। तस्य भाषा समास रहिता अथवा अल्प समास युक्ती भवति ।

अथवा का ऊत्तर

(क) एकस्मिन् निर्जने वने एकः वटवृक्षः आसीत्।
(ख) तस्मिन् वायस-दम्पतिः सुखेन निवसति स्म।
(ग) तस्य वृक्षस्य अधस्तात् एव एकस्मिन् बिले कृष्णसर्पः आसीत्।
(घ) सः तयोः नवजातानि अपत्यानि अखादत्।
(ङ) एकदा काकः शृगालेन परामृष्ट: महाराज्ञयाः रत्नजटितं स्वर्णहारम् अपहृत्य आनयत्।
(च) मित्रेण शृगालेन परामृष्टः काकः तं स्वर्णहारं सर्पस्य बिले अक्षिपत्।
(छ) राजपुरुषाः हारम् अन्वेष्टुम् इतस्तत: भ्रमन्तः वृक्षस्य समीपम् आगच्छन्।.
(ज) सर्पस्य बिले हारं दृष्ट्वा तं चौरं मत्वा बिलं च खनित्वा ते सर्पम् अघ्नन्।
(अ) कोक दम्पती सर्वथा सुखी निर्भयश्च अभवताम्।
(ज) तौ उभौ शृगालं कृतज्ञताम् अज्ञापयताम्।

उत्तर 25.
(क) स: ग्रामं गच्छति ।
(ख) वेदाः सर्वाधिकाः प्रामाणिक ग्रन्थाः सन्ति।
(ग) वयं शिक्षकाणाम् आज्ञां पालयेम।
(घ) वधिकः क्रौञ्चम् अहनत्।
(ङ) ग्राम परितः क्षेत्राणि सन्ति।
(च) बालकाय मोदकं रोचते।
(छ) नमः भगवते वासुदेवाय।
(ज) भिक्षुकः पादेन खञ्जः

उत्तर 26.
(क) गुरूपदेशःगुरु+उपदेश:-दीर्घ सन्धिः अकः सवर्णे दीर्घः
(ख) विष्णोऽव = विष्णो+अव – पूर्वरूप सन्धिः -एङः पदान्तादति।

उत्तर 27.
(क) उप + एधते = उपैधते = वृद्धिसन्धिः एत्येधत्यूसु।
(ख) तत् + टीका = तट्टीका = हल्सन्धिः -ष्टुनाष्टुः

उत्तर 28.
(क) शय्याम्-द्वितीया विभक्ति:- अधि शीङ्स्थासां कर्म ।
(ख) रामेण-तृतीया विभक्तिः सहयुक्ते अप्रधाने।
(ग) पापात्पञ्चमी विभक्ति:-भीत्रार्थानां भय हेतुः।
(घ) कवीनाम्-षष्ठी विभक्तिः -यतश्च निर्धारणम्।।

उत्तर 29.
(क) प्रतिदिनम् = दिनम् दिनम् प्रति – अव्ययीभावः
(ख) पञ्चवटी = पञ्चानां वटानां समाहारः – द्विगु समास।

उत्तर 30.
(क) माता च पिता च = पितरौ एकशेष द्वन्द्व, अथवा = मातापितरौ = इतरेतर द्वन्द्व ।
(ख) पुरुषः व्याघ्रः इव = पुरुषव्याघ्रः = उपमानोत्तर पद कर्मधारय।

We hope the given RBSE Class 12 Sanskrit Model Paper 2 will help you. If you have any query regarding RBSE Class 12 Sanskrit Sample Paper 2, drop a comment below and we will get back to you at the earliest.